________________
८६
आचाराङ्ग सूत्रम् 91-19/0/परिगृह्यते, यतोन कदाचिदात्मनोगुणिनस्तेन ज्ञानास्येनगुणेन वियोगोऽस्ति, ततोऽसौ सहभावी गुणः,अतोबहुविधवक्तव्यंनयमार्गमवधार्यापिसङक्षेपात्ज्ञानाचरणयोरेवस्थातव्यमिति निश्चयो विदुषां, न चाभिलषितप्राप्तिः केवलेन चरणेन ज्ञानहीनत्वात्, अन्धगमिक्रियाप्रतिविशिष्टप्रदेशप्राप्तिवत्, नचज्ञानमात्रेणाभीष्टप्राप्तिः, क्रियाहीनत्वात्, चक्षुर्ज्ञानसमन्वितपहुपुरुषअर्धदग्धनगरमध्यावस्थितयथावस्थितदर्शिज्ञानवत् तस्मादुभयं प्रधानं, नगरदाहिनिर्गमे पङ्गवन्धसंयोगक्रियाज्ञानवत् एवभिदमाचाराङ्गसन्दोहभूतंप्रथमाध्ययनंषङ्जीवनिकायस्वरूपरक्षणोपायगर्भमादिमध्यावसानेषु दयैकरसमेकान्तहितापत्तिकारि मुमुक्षुणा यदाऽधीतं भवति सूत्रतः शिक्षकेणार्थतश्चावधृतं भवति श्रद्धानसंवेगाभ्यां च यथावदात्मीकृतं भवति ततोऽस्य महाव्रतारोपणमुपस्थापनंपरीक्ष्यनिशीथाघभिहितक्रमेणसचित्तपृथिवीमध्यगमनादिना श्रद्दधानस्य सर्वंयथाविधिकार्यम्।कः पुनरुपस्थापनेविधिरिति?,अत्रोच्यते, शोभनेषुतिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रभावेषु च भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थितः सूरिःसहशिक्षकेणमहाव्रतारोपणप्रत्ययंकायोत्सर्गमुत्सायकैकंमहाव्रतमादितआरभ्यत्रिरुच्चारयेद् यावनिशिभुक्तिविरतिरविकला त्रिरुचारिता,
-पश्चादिदं त्रिरुच्चरितव्यम्-'इच्चेइयाई पंच महव्वयाई राइभोयणवेरमणछठाई अत्तहियठ्याए उपसंपज्जित्ता णं विहरामि' पश्चाद्वन्दनकं दत्त्वोत्थितोऽभिधत्ते अवनताङ्गयष्टिः'संदिशतकिंभणामी'ति?,सूरि-प्रत्याह- 'वन्दित्वाऽभिधत्स्वेत्येवमुक्तोऽभिवन्द्योस्थितोभणति'युष्माभिर्मम महाव्रतान्यारोपितानि इच्छाम्युनुशिष्टिमिति, आचार्योऽपि प्रणिगदति . 'निस्तारकपारगो भवाचार्यगुणैर्वर्द्धस्व' वचनविरतिसमनन्तरंच सुरभिवासचूर्णमुष्टिं शिष्यस्य शिरसि किरति, पश्चाद्वन्दनकं दत्त्वा प्रदक्षिणीकरोत्याचार्य नमस्कारमावर्तयन्, पुनरपि वन्दते, तथैवचकरोतिसकलक्रियानुष्ठानम्, एवं त्रिप्रदक्षिणीकृत्य विरमतिशिष्यः,शेषाः साधवश्चास्य मूर्जियुगपद्वासमुष्टिं विमुञ्चन्तिसुरभिपरिमलांयतिजनसुलभकेसराणिवा, पश्चात्कारितकार्योत्सर्गः सूरिरभिदघाति-गणस्तवकोटिक स्थानीयंकुलंवैराख्याशाखाअमुकाभिधानआचार्यउपाध्यायश्च, साध्व्याःप्रवर्तिनी तृतीयोद्देष्टव्या, यथाऽऽसन्नंचोपस्थाप्यमानारलाधिका भवन्ति, पश्चादाचाम्ल निर्विकृतिकं वा स्वगच्छसन्ततिसमायातमाचरन्तीति ।
एवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि भव्यजनतामनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्तबहुलकषायझषादिकुलाकुलविषमसंसृतिसरितारणसमर्थममलदयैक रसमसकृदभ्यसितव्यं मुमुक्षुणेति ॥
अध्ययनं-१-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिताशीलाझाचार्यविरचिता प्रथमश्रुतस्कन्धे प्रथममध्ययनटीका परिसमाप्ता।
(अध्ययन-२-लोकविजयः ॥१॥
नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org