________________
श्रुतस्कन्ध: - १, अध्ययनं - १, उद्देशक:७
८५
तदुपादानाय यलं कुर्यादित्यर्थः, किं पुनः तदकरणीयं नान्वेषणीयमिति ?, उच्यते, 'पापं कर्म' अधःपतनकारित्वात्पापं क्रियत इति कर्म, तच्चाष्टादशविधं प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहकोद्यमानभाया लोभप्रेमद्वेषकलहाभ्याख्यानपैशून्यपरपरिवादारत्य रतिमायामृषामिथ्यादर्शनशल्याख्यमिति, एवमेतत् पापमष्टादशभेदं नान्वेषयेत् न कुर्यात् स्वयं न चान्यं कारयेत् न कुर्वाणमन्यमनुभोदेत । एतदेवाह - 'तं परिण्णाय मेहावी' त्यादि 'तत्' पापमष्टादशप्रकारं परि:समन्तातुज्ञात्वा मेधावी - मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत् न चान्यान् समारभमाणान् समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीवनिकाय शस्त्रसमारम्भाः तद्विषियाः पापकर्म्मविशेषाः परिज्ञाता ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, स एव मुनिः प्रत्याख्यातकर्म्मत्वात् - प्रत्याख्याताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति । इतिशब्दोऽध्यनपरिसमाप्तिप्रदर्शनाय, ब्रवीमीति सुधर्मस्वाम्याह स्वमनीषिकाव्यावृत्तये, भगवतोऽपनीतघनघातिकर्म्मचतुष्टयस्य समासादिताशेषपदार्थाविर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिंशदतिशयसमन्वितस्य श्रीवर्द्धमानस्वामिन उपदेशात्सर्वमेतदाख्यातं यदतिक्रान्तं मयेति । उक्तंः सूत्रानुगमः निक्षेपश्च ससूत्रस्पर्शनियुक्तिः । अद्यननं-१, उद्देशक:-७ समाप्त :
सम्प्रति नया नैगमादयः, ते चान्यत्र सुविचारिताः, सङक्षेपतस्तु सर्वेऽपि एते द्वेषा भवन्ति, ज्ञाननयाश्चरणनयाश्च तत्र ज्ञाननया ज्ञानमेव प्रधानं मोक्षसाधनमित्यध्यवस्यन्ति, हिताहितप्राप्तिपरिहारकारित्वात् ज्ञानस्य, तत्पूर्वकसकलदुःखप्रहाणाञ्च ज्ञानमेव न तु क्रिया, चरणनयास्तु चरणस्य प्राधान्यभिदधति, अन्वयव्यतिरेकसमधिगम्यत्वात्सकलपदार्थानां, तथाहि - सत्यपि ज्ञाने सकलवस्तुग्राहिणि समुल्लसितेन चरणमन्तरेण भवधारणीयकर्मोच्छेदः, तदनुच्छेदाच्च मोक्षालाभः, तस्मान्न ज्ञानं प्रधानं, चरणे पुनः सति सर्वमूलोत्तरगुणाख्ये घातिकर्मोच्छेदः, तदुच्छेदात्, केवलावदोघप्राप्तिः, ततश्च यथाख्यातचारित्रवह्निज्वालाकलापप्रतापितसकलकर्म्मकन्दोच्छेदः, तदुच्छेदादव्याबाघसुखलक्षणमोक्षावाप्तिरिति, तस्माञ्चरणं प्रधानमित्यध्यवस्यामः । अत्रोच्यते, उभयमप्येतन्मिथ्यादर्शनं, यत उक्तम्
11911
"हयं नाणं कियाहीणं, हया अन्नाणओ किया । पातो पंगुलो दड्ढो, धावमाणो य अंघओ ।"
तदेवं सर्वेऽपि नयाः परस्परनिरपेक्षा मिथ्यात्वरूपतया न सम्यग्भावमनुभवन्ति, समुदितास्तु यथावस्थितार्थप्रतिपादनेन सम्यक्त्वं भवन्ति, यत उक्तम्-
11911
"एवं सव्वेवि नया मिच्छादिट्ठी सपक्खपडिबद्धा । अणणिस्सिया पुण हवंति ते चेव सम्मत्तं ॥"
तस्मादुभयं परस्परसापेक्षं मोक्षप्राप्तये अलं, न प्रत्येकं ज्ञानं चरणं चेति, निर्दोषः खल्वेष पक्ष इति व्यवस्थितं । तथा चोभयप्राधान्यदिदर्शयिषयाह
॥१॥
सव्वेसिंपि नयाणं बहुविधवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ।।
चरणं च गुणश्च चरणगुणौ तयोः स्थितश्चरणगुणस्थितः, गुणशब्दोपादानात् ज्ञानमेव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International