________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशक:६
७९ समारंभेजा नेवऽन्नेहिं तसकायसत्थंसमारंभावेजा नेवऽण्णे तसकायसत्यं समारंभंतेसमणुजाणेजा, जस्सेते तसकायसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे तिबेमि।।
वृ. प्राग्वद्वाच्यं, यावत्स एव मुनिसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वाप्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति ।।
अध्ययन-१ - उद्देशकः-६ समाप्तः
-: अध्ययन-१ -उद्देशकः-७:उक्तः षष्ठोद्देशक;, साम्प्रतं सप्तमः समारभ्यते, अस्यचायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्कमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यतेतदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिवाच्यानियावन्नामनिष्पन्ने निक्षेपेवायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणायकतिचिद्वारातिदेशगर्दा नियुक्तिकृद्गाथामाह नि. [१६४] वाउस्सऽवि दाराई ताईजाइं हवंति पुढवीए।
नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय ।। वृ. वातीति वायुस्तस्यवायोरपि तान्येव द्वाराणियानिपृथिव्यां प्रतिपादितानि, नानात्वंभेदः, तच्च विधानपरिमाणोपभोगशस्त्रेषु, चशब्दालक्षणेच द्रष्टव्यमिति। तत्रविधानप्रतिपादनायाह नि. [१६५] दुविहा उ वाउजीवा सुहुमा तह वायरा उ लोगमि।
सुहमा य सव्वलोए पंचेव य बायरविहाणा ।। वृ. वायुरेवजीवा वायुजीवाः, तेच द्विधाः-सूक्ष्मबादरनामकर्मोदयात् सूक्ष्मा बादराश्च, तत्रसूक्ष्माः सकललोकव्यापितयाअवतिष्ठन्ते, दत्तकपाटसकलवातायनद्वारगेहान्त मवत्व्याप्तया स्थिताः, बादरभेदास्तु पञ्चैवानन्तरगाथया वक्ष्यमाणा इति। बादरभेदप्रतिपादनायाह नि. [१६६] उक्कलिया मंडलिया गुंजा घणवाय सुद्धवाया य ।
बायरवाउविहाणां पंचविहा वणिया एए॥ वृ. स्थित्वा स्थित्वोत्कलिकाभिर्योवाति स उत्कलिकावातः, मण्डलिकावातस्तुवातोलीरूपः, गुना-भम्भातद्वत् गुञ्जन्यो वातिसगुआवातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो, मन्दस्तिमितः शीतकालादिषु शुद्धवातः, ये त्वन्ये प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषामेष्वेव यथायोग तर्भावो द्रष्टव्य ति, एवमित्येते बादरवायुविधानानि-भेदाः 'पञ्चविधाः' पञ्चप्रकारा व्यावर्णिता इति।लक्षणद्वाराभिधित्सयाऽऽहनि. [१६७] जह देवस्स सरीरं अंतद्धाणं व अंजणाईसुं।
एओवम आएसो वाएऽसंतेऽविरूवंभि॥ वृ. यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते चेतनावञ्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तुं शक्यते-नास्त्यचेतन
चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो वायावपि भवति
Jain Education International
For Private & Personal Use Only
Ford
www.jainelibrary.org