________________
आचाराङ्ग सूत्रम् १/-/१/६/५२
'सन्ति' विद्यन्ते प्रायः सर्वत्रैव प्राणाः प्राणिनः 'पृथक्' विभिन्नाः द्वित्रिचतुःपञ्चेन्द्रियाः 'श्रिताः' पृथिव्यादिश्रिताः, एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ।।
७८
अन्ये पुनरन्यथा - वादिनोऽन्यथाकारिण इति दर्शयन्नाह -
मू. (५३) लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसति, तत्थ खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयमाए दुक्खपडिधायहेउं से सयमेव तसकायसत्यं समारभति अण्णेहिं वा तसकायसत्थं समारंभावेइ अन्ने वा तसकायसत्यं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, सेतं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अनगाराणं अंतिए इहमेगेसिं नायं भवति-एस खलु गंधे एस खलु मोहे एस खलु मारे एस खलु णरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अन्ने अणेगरुवे पाणे विहिंसति ।
वृ पूर्ववत् व्याख्येयं यावत् 'अन्ने अनेगरूवे पाणे विहिंसइ 'त्ति ।। यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह -
मू. (५४) से बेभि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहति, अप्पेगे मंसाए वहति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए बसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए नहाए हारुणीए अट्ठीए अट्ठिमिंजाए अट्ठाए अणट्ठाए, अप्पैगे हिंसिंसु मेत्ति वा वहंति अप्पेगे हिंसंति मेत्ति वा वहति अप्पेगे हिंसिस्संति मेत्ति वा वहति ।।
वृ. तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैव्यापद्यन्त इति, अप्येकेऽचयैि ध्नान्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थित्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थं व्यापादयन्ति, तथाहि लक्षणवत्पुरुषमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्व्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं सहस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पशश्चाद्विषं जीर्यति, तथा अजिनार्थं चित्रकव्याघ्रा अरादीन् व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रान खस्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यं, मांसार्थं सूकरादयः, त्रिशूलालेखार्थं शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मथ्नन्ति, पित्तार्थं मयूरादयः, वसार्थं व्याघ्रमकरवराहादयः, पिच्छार्थं मयूरगृध्रादयः, पुच्छार्थं रोझादयः, वालार्थं चमर्यादयः शृङ्गार्थं रुरुखङ्गादयः, तत्किल शृङ्गं पवित्रमिति याज्ञिका गृह्णन्ति, विषाणार्थं हस्त्यादयः, दन्तार्थं श्रृंगालादयः तिमिरापहत्वात्तद्दन्तानां दंष्ट्रांर्थं वरहादयः, नखार्थं व्याघ्रादयः स्नाय्वर्थं गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जार्थं महिषवराहादयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मत्स्वजनासिंहः सर्पोऽरिर्वाऽतो घ्नन्ति मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्त्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सर्पादिकं व्यापादयन्ति एवमनेक- प्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षुराह -
मू. (५५) एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्छेते आरंभा परिण्णाया भवन्ति, तं परिण्णाय मेहावी नेव सयं तस कायसत्थं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International