________________
८०
आचारागसूत्रम् १/-19/७/- [नि. १६७)
'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाद्यं तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्चगाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात्, गवाश्वादिवत्, तिर्यमेव गमन नेयमाभावात् अनियमितविशेषणोपादानाच्चपरमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात,जीवपुद्गलयोः 'अनुश्रेणिगति' रितिवचनात्, एवमेषवायुः-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ॥परिमाणद्वारमाह -- नि. [१६८] जे बायरपजत्ता पयरस्स असंखभागमित्ता ते॥
सेसा तित्रिवि रासी वीसं लोगा असंखिज्जा।। (दाएं) वृ.येबादरपर्याप्तकावायवस्तेसंवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्घयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादरा कायपर्याप्तकेभ्योवादरवायुपर्याप्तकाअसङ्ख्येयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्घयेयगुणाः सूक्ष्मा कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः ।। उपभोगद्वारमाह - नि. [१६९] वियणधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ ।
बायरवाउक्काए उवभोगगुणा मणुस्साणं॥ वृ. व्यजनभस्त्राध्माताभिधारणोसिञ्जनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एवगुण उपभोगगुणोमनुष्याणामिति।।शस्त्रद्वाराभिधित्सयाऽऽह,तत्रशस्त्रंद्रव्यभावभेदाद्विविधं, द्रव्यशस्त्राभिधित्सयाऽऽहनि. [१७०] विअणे अ तालावंटे सुप्पसियपत्त चेलकण्णे य ।
अभिधारणा य बाहिं गंधग्गी वाउसस्थाई ।। वृ.व्यजनं-तालवृन्तं सूर्पसितपत्रचेलकर्णादयः द्रव्यशस्त्रमिति, तत्र सितमिति चामरं, प्रस्विनीयद्वहिरवतिष्ठतेवातागमनमार्गेसाऽभिधारणा,तथा गन्धा, चन्दनोशीरादीनांअग्निाला प्रतापश्च, तथा प्रतिपक्षवातश्चशीतोष्णादिकः,प्रतिपक्षवायुग्रहणेन स्वकायादिशस्त्रंसूचितमिति, एवं भावशस्त्रमपि दुष्प्रणिहितमनोवाकायलक्षणमवगन्तव्यमिति ॥
अधुना सकलनिर्युक्त्यर्थोप-सञ्जिहीर्षुराह - नि. [१७१] सेसाइंदारारं ताईजाइं हवंति पुढवीए।
___ एवं वाउद्देसे निजुत्ती कित्तिया एसा ।। ___ वृ. 'शेषाणि’ उक्तव्यतिरिक्तानि तान्येव द्वाराणिपृथिवीसमधिगमे यान्यभिहितानीति, एवं सकलद्वारकलापव्यावर्णनाद् वायुकायोद्देशके नियुक्तिः कीर्तितैषाऽवगन्तव्येति ॥ गतो नामानिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं, तच्चेदम् –'पहू एजस्स दुगुंछणाए'त्ति, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके पर्यन्तसूत्रे त्रसकायपरिज्ञानं तदारम्भवर्जनंचमुनित्वकारणमभिहितम्, इहापितदेव द्वयंवायुकायविषयंमुनित्वकारणमेवोच्यते, तथा परम्परसूत्रसम्बन्धः 'इहमेगेसिं नो नायं भवइत्ति, किं तत् ज्ञातं भवति?, 'पहु एजस्स दुगुंछणाएति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org