________________
श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक : ६
वृ. 'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्-स्पन्दनात् साः, जीवनात्प्राणधारणाजीवाः, त्रसा एव जीवास्त्रसजीवाः, लब्धित्रसा गतित्रसाश्च, लब्ध्या तेजोवायू सौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चा---भिधास्यमानत्वाद्, अतः सामथ्यार्दगतित्रसा एवाधिक्रियन्ते ॥
के पुनस्ते कियभेदा वेत्यत आह
नि. [१५४] नेरइयतिरियमणुया सुरा य गइओ चउव्विहा चेव । पत्ताsपजत्ता नेरइयाई अ नायव्वा ॥
नारका - रत्नप्रभादिमहातमः पृथ्वीपर्यन्तनरकावासिनः सप्तमेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च सुरा भवनपतिव्यन्तरज्योतिष्क वैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिर्वृत्तगतिलाभाद्गतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति । इदानीमुत्तरभेदानाह नि. [१५५ ] तिविहा तिविहा जोणी अंडापोअअजराउआ चेव ।
बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ।। दारं ॥
वृ. अत्र हि शीतोष्णमिश्रभेदात्तथा सचिताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाच्चेत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्थ्यामुपरितननरकेषु शीता अघस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गव्युत्क्रान्तिकतिर्यङ्मनुष्यानामशेषदेवानां च शीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यङ्गनुष्याणां त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति, तथा नारक देवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्गनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्राच, गर्भव्युत्क्रान्तिकतिर्यङ्गनुष्याणां मिश्रा योनिर्नेतरे, तथा देवनारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजप-श्चेन्द्रियतिर्यङ्गनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयनेय एव, तिर्यञ्चस्त्रिविधाः स्त्रीपुंनपुंसकयोनयोऽपि मनुष्या अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा - कूर्मोन्नता, तस्यां चार्हत् चक्रवर्त्या दिसत्पुरुषाणामुत्पत्तिः, तथा शङखावर्त्ता, सा च स्त्रीरत्नस्यैव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, साच प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं निर्युक्तिकृद्दर्शयति-तद्यथाअण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे 'पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं ।
11918
॥२॥
७३
-
सत्ता सत्ता सत्तग सत्तग दस चोद्दस य लक्खा ॥ विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई ॥'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org