________________
आचाराङ्ग सूत्रम् १/-/१/५/४७ व्यञ्जनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति । तथा यथेदं मनुष्यशरीरमनित्यकंन सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि अस्य दश वर्षसहस्राणि उत्कृष्टमायुः ।
तथा यथेदं मनुष्यशरीरमशाश्वतं प्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति । तथा यथेदमिष्टानिष्टाहारादिप्राप्तया 'चयापचयिकं' वृद्धिहान्यात्मकं तथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणामः तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलि - नासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाद्युपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामः तद्धर्म्मकं तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्प - पत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहदप्रदानेन पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत् - सचेतनास्तरच इति ।। एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षुराह -
मू. (४८) एत्थ सत्यं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चे आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी नेव सयं वणस्सइसत्थं समारंभेज्जा नेवन्नेहिं वणस्सइसत्थं समारंभाज्जा नेवन्ने वणस्सइसत्थं समारंभंते समणुजाणेञ्जा, जस्सेते वणस्पतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेभि ।।
वृ. 'एतस्मिन् ' वनस्पती शस्त्रं द्रव्यभावाख्यमारभमाणस्येत्येते आरम्भा अपरिज्ञाताअप्रत्याख्याता भवन्ति, एतस्मिंश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाताःप्रत्याख्याता भवन्तितपूर्ववच्चर्चः, यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्व्ववदिति । अध्ययनं-१, उद्देशकः-५, समाप्तः
७२
-: अध्ययन-१, उद्देशक:- ६ :
उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठितत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्ने निक्षेपे सकायोद्देशकः, तत्र त्रसकायस्य पूर्व्वप्रसिद्धद्धारक मातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च नियुक्तिकृदाह - नि. [१५२]
तसकाए दाराई ताई जाई हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥
वृ. त्रस्यन्तीति त्रसास्तेषां कायस्त्रसकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दाल्लक्षणे च प्रतिपत्तव्यमिति
तत्र विधानद्वारमाह
-
नि. [ १५३ ] दुविहा खलु तसजीवा लद्वितसा चैव गइतसा चेव । लद्धीय तेउबाऊ तेणऽहिगारी इहं नत्थि ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org