________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः-५
७१ तंसंबुज्झमाणे आयाणीयं समुट्टाए सोचा भगवओअनगाराणं वा अंतिए इहमेगेसिं नायं भवतिएस खलुगंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इञ्चत्थंगड्ढिए लोए, जमिणं विरूवरूवेहि सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अन्ने अनेगरूवे पाणे विहिंसंति ।
वृ.प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ।।साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह
मू. (८७) सेबेमिइमंपिजाइधम्मयंएयपिजाइधम्मयंइमंपिवुढिधम्मयंएयपि बुढिधम्मयं इमपि चित्तमंतयं एयपि चित्तमंतयं इमपि छिण्णं मिलाइ एयपि छिण्णं मिलाइ इमंपि आहारगं एयंपिआहारगंइमंपिअणिञ्चयंएयपि अणिच्चयं इमंपिअसासयंएयंपिअसासयंइमंपिचओवचइयं एयपिचओवचइयं इमंपि विपरिणामधम्मयं एयंपि विपरिणामधम्मयं।
वृ. सोऽहमुपलब्धतत्त्वोब्रवीमि, अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं यत्तदहं ब्रवीमि, यथाप्रतिज्ञातमर्थं दर्शयति – 'इमंपि जाइधम्मयं ति इहोपदेशदानाय सूत्रारम्भस्तद्योग्यश्च पुरुषो भवत्यतस्यस्य सामध्येर्न सन्निहितत्वात्तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति, इदमपि-मनुष्यशरीरं,जननं-जातिरुत्पत्तिस्तद्धर्मकम्, एतदपि वनस्पतिशरीरंतद्धर्मकतत्स्वभावमेव, इतिपूर्वकोऽपिशब्दः सर्वत्र यथाशब्दार्थे द्वितीयस्तु समुच्चये व्याख्येयः, ततश्चायमर्थः-यथामनुष्यशरीरं वालकुमारयुववृद्धतापरिणामविशेषवत्, चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतना-कमुपलभ्यते,तथेदमपि वनस्पतिशरीरं, यतो जातः केतकतरुलिको युवा वृद्धश्च संवृत्तइति, अतस्तुल्यत्वादेतदपि जातिधर्मकं, नच कश्चिद्विशेषोऽस्ति, येन सत्यपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति, ननुचजातिधर्मत्वं केशनखदन्तादिष्वप्यस्ति, अव्यभिचारिच लक्षणंभवत्यस्ति च व्यभिचारः तस्मादयुक्तं कल्पयितुंजातिधर्मत्वंजीवलिङ्गमिति, उच्यते, सत्यमस्ति जननमात्रं, किन्तु मनुष्यशरीरप्रसिद्धबालकुमारकाद्यवस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्मादवसमञ्जसमेतद्, अपिच-केशनखंचेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्द्धते इति वा, न पुनस्त्वयैवंतरवोऽपिचेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्तस्मादयुक्तिमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथक् हेतुता, न च समुदायहेतुः केशादिष्वस्ति तस्माददोष इति ।
तथा यथेदं मनुष्यशरीरकमनवरतं वालकुमाराद्यवस्थाविशेषैर्वर्द्धते, तथैतदपि वनस्पतिशरीरमकुरकिशलयशाखाप्रशाखादिभिर्विशेषैर्वर्द्धत इति, तथा यथेदं मनुष्यशरीरं चित्तवदेवंवनस्पतिशरीरमपि चित्तवत्, कथम्?, चेतयति येन तच्चितं-ज्ञानं, ततश्चयथा मनुष्यशरीरं ज्ञानेनागतमेवं वनस्पतिशरीरमपि, यतो धात्रीप्रपुन्नाटादीनां स्वापविबोधसद्भावः तथाऽधोनिखातद्रविणराशेः स्वप्ररोहेणावेष्टनं प्रावृड्जलधरनिनादशिशिरवायुसंस्पर्शादङकुरोद्भेदः, तथा मदमदनसङ्गस्खलद्गतिविधूर्णमानलोललोचनविला सिनीसन्नपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा सुभिसुरागण्डुषसेकाद्वकुलस्य स्पृष्टप्ररोहिकादीनां च हस्तादिसंस्पर्शात्सङ्कोचादिका परिस्फुटा क्रियापलब्धिः, न चैतदभिहिततरुसम्वन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात्सिद्धं चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नंम्लायति, मनुष्यशरीरंहि हस्तादिछिनम्लायति-शुष्यति, तथा तरुशरीरमपिपल्लवफलकुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org