________________
आचाराङ्ग सूत्रम् १/-/१/५/४२ 'अध' मित्यवाङ् अधस्तात् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधः शब्दार्थे अवाङित्ययं वर्त्तते, गृहभित्त्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः 'प्राचीन' मिति पूर्वा दिग्, एतच्चोपलक्षणम् अन्या अप्येतदाद्यास्तियग्दिशो द्रष्टव्या इति, एतासु दिक्षु पश्यन्, चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति-उपलभत इत्यर्थः, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति ॥ अत्रोपलब्धिमात्रं प्रतिपादितं न चोपलब्धिमात्रात्संसारप्रपातः, किन्तु यदि मूर्च्छा रूपादिषु करोति, ततोऽस्य बन्ध इति दर्शयितुमाह- 'उड्ढ' मित्यादि पुनरुर्ध्वादावदेर्मूर्छासम्ब- धानर्थमुपादानं, मूर्छन् रूपेषु मूर्छति, रागपरिणामं यान् रज्यते रूपादिष्वित्यर्थः, एवं शब्देष्वपि मूर्छति, अपिशब्दः सम्भावनायां समुच्चये वा, रूपशब्दविषयग्रहणाच्च शेषा अपि गन्धरसस्पर्शा गृहीता भवन्ति, 'एकग्रहणे तज्जातीयानां ग्रहणाद्, आद्यन्तग्रहणाद्वा तन्मध्यग्रहणमवसेयमिति ॥ एवं विषयलोकमाख्याय विवक्षितमाह
७०
मू. (४३) एस लोए वियाहिए एत्थ अगुत्ते अणाणाए ।
वृ. 'एष' इति रूपरसगन्धस्पर्शशब्दविषयाख्यो लोको व्याख्यात;, लोक्यतेपरिच्छिद्यते इतिकृत्वा, एतस्मिंश्च प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनोवाक्कायैः मनसा द्वेष्टि रज्यते वा वाचा प्रार्थनं शब्दादीनां करोति कायेन शब्दादिविषयदेशमभिसर्पति, एवं यो ह्यगुप्तो भवति सोऽनाज्ञायां वर्त्तते, न भगवत्प्रणीतवचनानुसारीतियावदिति ॥ एवं गुणश्च यत्कुर्यात्तदाह -
पू. (४४) पुणो पुणो गुणासाए वंकसमायारे ।
वृ. ततश्चासावकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेर्निवर्त्तयितुम्, अनिवर्त्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन शब्दादिगुणानास्वादयतीत्यर्थः, तथा चयादृशो भवति तद्दर्शयति वक्रः - असंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात् समाचरपं समाचारः-अनुष्ठानं, वक्रः समाचारो यस्यासौ वक्र समाचारः, असंयमानुष्ठायीत्यर्थः, अवश्यमेव शब्दादिविषयाभिलाषी भूतोपमर्द्दकारीत्यतो वक्र समाचारः, प्राक् शब्दादिविषयल वसमास्वादनाद्गृद्धः पुनरात्मानमाचारयितुमसमर्थत्वादपथअयाम्म्रफलभोजिराञ्चद्विनाशमाशु संश्रयत इति ॥
एवं चासौ नितरां जितः शब्दादिविषयसमास्वादनात् 'खंतपुत्तोव्व' इदमाचरति - मू. (४५) पमत्तेऽगारमावसे ।
वृ. प्रमत्तो विषयविषमूर्च्छितः 'अगारं' गृहमावसति, योऽपि द्रव्यलिङ्गसमन्वितः शब्दादिविषयप्रमादवान् असावपि विरतिरूपभावलिङ्गरहितत्वात् गृहस्थ एवेति । अन्यतीर्थिकाः पुनः सर्वदा सर्वथाऽन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
मू. (४६) लजमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारभमाणा अन्ने अनेगरूवे पाणे विहिंसंति, तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिधायहेउं से सयमेव वणस्सइसत्यं समारंभइ अन्नेहिं वा वणस्सइसत्यं समारंभावेइ अन्ने वा वणस्सइसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org