________________
श्रुतस्कन्धः-१, अध्ययनं. १, उद्देशका५
मू. (१) जे गुणे से आवटे जे आवट्टे से गुणे ।
वृ.यो 'गुणः' शब्दादिकः स आवतः, आवर्तन्ते-परिभ्रमन्ति प्राणिनो यत्र स आवतःसंसारः,इहचकारणमेव कार्यत्वेन व्यपदिश्यतेयथानड्वलोदकंपादरोगः, एवंयएतेशब्दादयो गुणाः सआवर्तः, तत्कारणत्वात्, अथवैकवचनोपादानापुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्तते स आक्र्ते वर्तते, यश्चावर्ते वर्तते स गुणे वर्तत इति, अत्र कश्चिच्चोधचञ्चुराह-यो गुणेषु
तिसआवर्तेवर्तत इतिसाधु, यःपुनरावर्तेवर्ततेनासौ नियमतएव गुणेषुक्तत,यस्मात्साघवो वर्त्तन्त आवर्ते न गुणेषु तदेतत्कथमिति, अत्रोच्यते, सत्यम्, आवर्ते यतयो वर्तन्ते न गुणेषु, किन्तुरागद्वेषपूर्वकंगुणेषुवर्तनमिहाधिक्रियते, तच्चसाधूनांनसम्भवति, तदभावात, आवर्तोऽपि संसरणरूपोदुःखात्मकोनसम्मवति, सामान्यतस्तुसंसारान्तःपातित्वंसामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येवातो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् - "कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए" इत्यादि, तथा - ॥१॥ “नशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम्।
रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत्॥" कथंपुनर्गुणभूयस्त्वंवनस्पतिभ्यइतिप्रदश्यति-वेणुवीणापटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः, ततश्च मनोहराः शब्दा निष्पधन्ते, प्राधान्यमत्र वनस्पतेर्विवक्षितं, अन्यथा तु तन्त्रीचर्मपाण्यादिसंयोगाच्छन्दनिष्पत्तिरिति, रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृहतोरणवेदिकास्तम्भादिषु च चर्रमणीयं, गन्धा अपि हि कर्पूरपाटलालवलीलवङ्गकेतकीसरसनन्दनागुरुककोलकेलाजातिफलपत्रिकाकेसरमासीत्वक्पत्रादीनांसुरभयोगन्धेन्द्रियाहादकारिणः प्रादुर्भवन्ति, रसास्तु बिसमृणालमूलकन्दपुष्पफलपत्रकण्टकमञ्जरीत्वगङ्कुरकिसलयारविन्दकेसरादीनांजिहेन्द्रियप्रह्लादिनोनिष्पद्यन्ते अतिबहवइति,तथास्पर्शाः पद्मिनीपत्रकमलदलमृणालवल्कलदुकूलशाटकोपधानतूलिकप्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुष्षयन्ति, एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्च आवर्त्तवर्ती स रागद्वेषात्मकत्वात् गुणेषुवर्ततइति, सचावलॊ नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, द्रव्यावतः स्वामित्वकरणाधिकरणेषुयथासम्भवं योज्यः, स्वामित्वे नद्यादीनां क्वाविभागेजलपरिभ्रमणं द्रव्यस्यावर्त्तः, द्रव्याणां वा हंसकारण्डवचक्रवाकादीनांव्योम्निक्रीडतामावर्तनादावर्त्तः, करणे तुतेनैव जलद्रव्येण भ्रमतायदन्यदावर्ततेतृणकलिञ्चादि सद्रव्येणावतः, तथा त्रपुसीसकलोहरजतसुवर्णैरावर्त्यमानैर्यदन्यत्तदन्तःपात्यावयतेसद्रव्यैरावर्तत इति, अधिकरणविवक्षायामेकस्मिन्, जलद्रव्ये आवर्तस्तथारजतसुवर्णरीतिकात्रपुसीसकेष्वेकस्थीकृतेषुबहुषुद्रव्येष्वावर्तः, भावावर्ती नामान्योऽन्यभावसङ्कान्तिः, औदयिकभावोदयाद्वा नरकादिगतिचतुष्टयेऽसुमानावर्तते, इह च भावावर्तेनाधिकारोनशेषैरिति॥अथयएतेगुणाः संसारावर्तकारणभूताःशब्दादयोवनस्पतेरमिनिवृत्तास्ते किं नियतिदिग्देशभाजः उत सदिक्षु इत्यत आह
मू. (४२) उड्ढे अहं तिरियं पाईणं पासमाणे रूवाई पासति, सुणमाणे सद्दाइं सुणेति, उड्ढे अहं पाईणं मुच्छमाणे रूवेसुमुच्छति, सद्देसुआवि ।
वृ. प्रज्ञापकदिगङ्गीकरणादूर्द्धवदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतलहम्यार्दिषु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org