________________
आचाराङ्ग सूत्रम् १/-19/५/४०
मू. (४०) तं नो करिस्सामि समुदाए, मत्ता मइणं, अमयं विदित्ता, तं जे नो करए, एसोवरए, एत्योवरए, एस अनगारेत्ति पवुच्चई।।
वृ.अस्य चानन्तपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् ‘सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्रम्यन्ति सत्त्वाः' इत्येवंविदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मपिदर्शयन्नाह'तत् वनस्पतीनांदुःखमहंटप्रत्यपायोनकरिष्ये, यदिवातद्दुःखोत्पत्तिनिमित्तभूतंवनस्पताचारम्भ छेदनभेदनादिरूपंनो करिष्येमनोवाक्कायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्याय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवंवर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखंतदारम्भंवानो करिष्याभीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किंतर्हि ?,
ज्ञानक्रियाम्या, तदुक्तम् - ॥१॥ “नाणं किरियारहियं किरियामेत्तं य दोऽविएगन्ता।
नसमत्था दाउंजेजम्ममरणदुक्खदाहाई॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह - भत्ता मइम' मत्वाज्ञात्वा अवबुध्य यथावत् जीवान, मतिरस्यास्तीति मतिमान् मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैवशिष्यापन्त्रणंहेमतिमान्! प्रव्रज्यांप्रतिपद्यजीवादिपदार्थांश्च ज्ञात्वामोक्षमवान्पोतीति, सम्यग्ज्ञानपूर्विकाहि क्रियाफलवतीति दर्शितं भवति।पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं मयमस्मिन्सत्त्वानामित्यभयः-संयम;, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह - 'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भ' 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात, तस्य प्रतिविशिष्टेटफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य,अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदितिमन्तव्यं, ज्ञानमपिक्रियाहीनंनमोक्षाय, गृहान्तर्दह्यमाननिनझुपगुचक्षुर्तानवदिति, एवं ज्ञात्वाऽम्युपेत्य चतत्परिहारः कर्तव्यइतिदर्शितं भवति। एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोतिस एव समस्तारम्भनिवृत्त इति दर्शयति
एसोवरए'त्तिएष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतोयोयथावत् ज्ञात्वाऽऽरम्भ न करोतीति, स पुनरेवंविधनिवृत्तिमाकिं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति"एत्थोवरएति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्रुतेइति दर्शयति- 'एसअणगारेत्तिपवुच्चई "एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारः प्रकर्षेण उच्यतेप्रोच्यते इति, किंकृतः प्रकर्षः?,अनगारव्यपदेशकारणभूतगुणकलापसम्भन्दकृतःप्रकर्षः, इतिशब्दोऽनगारव्यपदेशाकारणपरिसमाप्तिद्योती. एतावदनगारलक्षणंनान्यदिति,येपुनःप्रोज्झितपारमार्थिकानगारगुणाःशब्दादीन्विषयानङ्गीकृत्य प्रवर्तन्तेतेतुनापेक्षन्ते वनस्पतीन्जीवान्, यतोभूयांसःशब्दादयोगुणावनस्पतिभ्यएवनिष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव च शब्दादिविष-याभिष्वङ्गिणो मवन्तीति॥
अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org