________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:५
युग्यं-गन्त्रिकादि, आवरणम्-फलकादि, प्रहरणं-लकुटमुसुण्ढ्यादि, शश्वविधानानि च बहूनि तन्नित्यानि, शरदात्रखङ्गारिकादिगण्डोपयोगित्वादिति ।। तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह - नि. [१४७] आउज्ज कट्टकम्मे गंधंगे वत्थ मल्ल जोए य ।
झावणवियावणेसु अतिल्लविहाणे अउज्जोए॥ वृ.आतोद्यानि-पटहभेरीवंशवीणाझलर्यादीनि, काष्ठकर्मा-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियङ्गु-पत्रकदमनकत्वकन्दनोशीरदेवदार्वादीनि, वस्त्राणि वल्कलकासिमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचाकिलादयः,मापनं-दाहो भस्मसात्करणमिन्धनैः,वितापनं-शीताभ्यर्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्,तैलविधानंतिलातसीसर्षपेङ्गुदीज्योतिष्मतीकरलादिभिः, उद्योतो-वर्त्तितृणचूडाकाष्ठादिभिरिति । एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्षराह -- नि. [१४८] एएहि कारणेहिं हिंसंति वणस्सई बहू जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १. 'एतैः' गाथाद्वयोपात्तै ः 'कारणैः' प्रयोजनैः "हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंमूतास्त इति दर्शयति - ‘सातं' सुखं तदन्वेषिणः 'परस्य' वनस्पत्यायेकेन्द्रियादेः 'दुःखं’ बाधामुत्पादयन्ति ।। साम्प्रतं शस्त्रमुच्यतेतच द्विधा-द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽहनि. [१४९] कप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसूअ।
सत्थं वणस्सईए हत्था पाया मुहं अग्गी ।। वृ. कल्प्यप्ते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दानं, दात्रिका-प्रसिद्धा, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सा- मान्यशस्त्रमिति। विभागशस्त्रभिधित्सयाऽऽह - नि. [१५०] किंची सकायसत्थं किंची परकाय तदुभयं किंचि।
एयं तु दव्वसत्थं भावेथ असंजमो सत्यं ।। वृ. किञ्चित्स्वकायशस्त्रं-लकुटादि किञ्चिच्च परकायशस्त्रं-पाषाणाग्न्यादि तथोभयशस्त्रंदात्रदात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति॥
सकलनिर्युक्तर्थपरिसमाप्तिप्रचिकटयिषयाऽऽह -- नि. [१५१] सेसाइंदाराइं ताइंजाइं हवंति पुढबीए।
एवं वणस्सईए निजुत्ती कित्तिया एसा ।। वृ. उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पती नियुक्तिः 'कीर्तिता' आवर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org