________________
६६
आचाराङ्ग सूत्रम् १/-19/५/- [नि. १४२] वृ. एकजीवपरिगृहीतशरीरंतालसरलनालिकेर्यादिस्कन्धः, सचचक्षुाह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्त्वं चक्षुर्दृश्यत्वं च, द्वित्रिसद्धयेयासङ्खयेयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।। किमनन्तामप्येवं?, नेत्यत आहनि. [१४३] इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउं सक्का ।
दीसंति सरीराई निओयजीवाणऽनंताणं ।। वृ. नैकादीनामसङ्घयेयावसानानामनन्तरुजीवानांशरीराण्युपलभ्यन्ते, कुतः?,अभावात, न ह्येकादिजीवपरिगृहीतान्यनन्तानांशरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथंतर्युपलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानां सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च - ॥१॥ “गोला य असंखेज्जा हुँति निओआ असङ्ख्या गोले ।
एक्के को य निओए अनंतजीवो मुणेयव्यो ।।" एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्घयेयानियोनिप्रमुखानिशतसहस्राणिभेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृतायोनिः, साच सत्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमित्रभेदाच, तथा प्रत्येकतरूणांदशलक्षा योनिभेदानां, साधारणानां च चतुर्दश, कुलकोटीनां, द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ।। उक्तं विधानद्वारम्, इदानीं परिमाणमभिधीयते तत्र प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह - नि. [१४४] पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई।
एवं मविजमाणा हवंति लोया अनंता उ ।। वृ. प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदिनाम कश्चित्साधारणजीवराशि लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत्तत एवं मीयमानाअनन्ता लोका भवन्तीति ।। इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽहनि. [१४५] जे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते ।
सेसा असंखलोया तित्रिवि साहारणाणंता।। वृ. ये पर्याप्तकबादरनिगोदास्तेसंवर्त्तितचतुरश्रीकृतसकललोकप्रतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽ-- सङ्घयेयगुणाः, शेषायोऽपि राशयः प्रत्येकमसङ्खयेयलोकाकाशप्रदेशपरिमाणाः, के पुनः इति?, उच्यन्ते, अपर्याप्तकबादरनिगोदाअपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एतेचक्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह - नि. [१४६] आहारे उवगरणे सयणासण जाण जुग्गकरणे य!
आवरण पहरणेसु असत्थविहाणेसु अ बहुसुं। वृ. आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वत्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं-खट्वाफलकादि, आसनम्-आसन्दकादि, यानं-शिबिकादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org