________________
श्रुतस्कन्धः - १, अध्ययनं. १, उद्देशक:५
करवीरसिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वल्लयस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुडीएलालुकीपटोल्यादयः, पर्वगाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुन- सुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतकलीशालसरकालेकतकीकदलीकन्दल्यादीनि, हरितानि-तन्दुलीयकाधूयारुहवस्तुलबदरकमाजारपादिकाचिल्लीपालक्यादीनि, औषध्यस्तु-शालीव्रीहिगोधूमयवकलममसूरतिलमुद्गमाषनिष्पावकुलत्थातसीकुसुम्भकोद्रवकङ्गवादयः,जलरुहा-उदकावकपनकशैवलकलम्बुकापावककशेकरुकउत्पलप ह्मकुमुदनलिनपुण्डरीकादयः, कुहुणास्तु-भूमिस्फोटकाभिधानाः आयकायकुहुणकुण्डुकोद्देहलिकाशलाकासप्पच्छत्रादयः, एषां हि प्रत्येकजीवानां वृक्षाणां मूलस्कन्धकन्दत्वकुशालप्रवालादिष्वसंख्येयाः प्रत्येकंजीवाः, पत्राण पुष्पाणि चैकजीवानि मन्तव्यानि, साधारणास्त्वनेकविधाः, तद्यथा-लोहीनिहुस्तुभायिकाअश्वकर्णीसिंहकर्णीशृङ्गबेरमालुकामूलककृष्णकन्दसूरणकन्दकाकोलीक्षीरकाकोलीप्रभृतयः॥
'सर्वेऽप्येते संक्षेपात् षोढा भवन्ती'त्युक्तं, के पुनस्ते भेदा इत्याहनि. [१३०] अग्गबीया मूलबीया खंधबीया चेव पोरबीया य ।
बीयरुहा समुच्छिम समासओ वणसईजीवा ॥ दू. तत्र कोरिण्टकादयोऽग्रबीजाः, कदल्यादयो मूलबीजाः, निहुशल्लकयरणिकादयः स्कन्ध-बीजाः, इक्षुवंशवेत्रादयः पर्ववीजाः,बीजरुहाः शालिव्रीह्यादयः, सम्मूच्छनजाः पद्मिनीशृङ्गाटक--पाठशैक्लादयः, एवमेते समासात्तरुजीवाः षोढा कथिताः, नान्येसन्तीतिप्रतिपत्तव्यं
किंलक्षणाः पुनः प्रत्येकतरवो भवन्तीत्यत आहनि. [१३१] जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया वट्टी।
पत्तेयसरीराणं तह हुँति सरीसंघाया।। वृ. यथेतिदृष्टान्तोपन्यासार्थः यथा सकलसर्षपाणां श्लेषयतीति श्लेष:- सर्जरसादिस्तेन मिश्रितानां 'वर्त्तिता' वलिता वर्त्तिः तस्यां च वर्ती प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योऽन्यानुवेधेन, चूर्णितास्तुकदाचिदन्योऽन्यानुवेधभाजोऽपिस्युरित्यतः सकलग्रहणं, यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथाच सर्षपास्तथा तदधिष्ठायिनोजीवाः, यथा श्लेषविमिश्रितास्तथा रागद्वेषप्रचितकर्मपुगद्गलोदयमिश्रिताःजीवाः, पश्चिमार्द्धन गाथायाउपन्यस्तदष्टान्तेन सह साम्यं प्रतिपादितं, तथेति शब्दोपादानादिति ।। अस्मिन्नेवार्थे दयन्तन्त्ररमाहनि. [१३२] जहवा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया संती।
पत्तेयसरीराणं तह हुंति सरीरसंघाया॥ वृ. यथा वा तिलशष्कुलिका-तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति, तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ।।
साम्प्रतं प्रत्येकशरीरजीवानामेकानेकाधिष्ठितत्वप्रतिपिपादयिषयाऽऽहनि. [१३३] नाणाविहसंठाणां दीसंती एगजीविया पत्ता।
खंधावि एगजीवा तालसरलनालिएरीणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org