________________
आचाराङ्ग सूत्रम् १/-/१/४/३९
प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकम्मेति ब्रवीमीति पूर्ववत् अध्ययनं - १ ; उद्देशकः - ४ समाप्त : -: अध्ययनं - १ उद्देशकः ५:
६२
1
वृ. उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाद्दुः श्रद्धानः, अतः समधिगताशेषपृथिव्याद्येकेन्द्रियप्राणिगणस्वरूपः शिष्यः “ सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावप्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पत्रे निक्षेपेवनस्पत्युद्देशकः, तत्रवनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण नियुक्तिकृदाहनि. [१२६ ]
पुढवीए जे दारा वणसइकाएऽ वि हुति ते चैव । नात्ती उ विहाणे परिमाणुवभोगसत्ये य ॥
वृ. यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणास्वरूपनिर्ज्ञापनायाह
नि. [१२७] दुविह वणस्सइजीवा सुहुमा तह बायरा य लोगंमि ।
सुहुमा य सव्वक्रोए दो चैव य बायरविहाणा ॥
वृ. वनस्पतयो द्विविधाः- सूक्ष्मा चादरश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षुग्रह्याश्च न भवन्त्येर
काकारा एव, बादराणां पुनर्द्वे विधाने ।। के पुनस्ते बादरविधाने इत्यत आहनि. [१२८ ] पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽ णेगविहा समासओ छव्विहा हुंति ।।
वृ. बादराः समासतः द्विविधाः - प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणास्त्वनेकभेदाः, सर्वेऽप्येते समासतः पोढा प्रत्येतत्याः ॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह
नि. [१२९]
रुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओस हिजलरुहकुहणा य वोद्धव्या ॥
वृ. वृश्चयन्त इति वृक्षाः, ते द्विविधाः - एकास्थिका बहुवीजकाञ्च तत्रैकास्थिका:पिचुमन्दाकोशम्वशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-- वृन्ताकीकपसीजपा आढकीतुलसी-कुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु नवमालिका सेरियककोरण्टकबन्धुजीवकबाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org