SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ६१ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक:४ इत्यर्थः, तदाश्रिता वा कृमिकुन्थुपिपीलिकागण्डूपदाहिमण्डूकवृश्चिककर्कटकादयः, तथा वृक्षगुल्मलता- वितानादयः, तथा तृणपत्रनिश्रिताः पतङ्गेलिकादयः, तथा काष्ठनिश्रिताधुणोद्देहिकापि-पीलिकाऽण्डादयः, गोमयनिश्रिताः कुन्थुपनकादयः, कचवरः-पत्रतृणधूलिसमुदायस्तनिश्रिताः कृमिकीटपतङ्गादयः । तथा सन्ति विद्यन्तेसम्पतितुमुस्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनो-जीवा मक्षिकाभ्रमरपतङ्गमशकपक्षिवातादयः, एते च सम्पातिनः 'आहत्य' उपेत्य स्वत एव, यदिवा अत्यर्थ कदाचिद्वा अग्निशिखायां सम्पतन्ति च। तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तद्दर्शयितुमाह 'अगणिं चेत्यादि, रन्धनपचनतापनाद्यग्निगुणार्थिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, छान्दसत्वात्, तृतीयार्थेद्वितीया, ततश्चायमर्थः-अग्निना ‘स्पृष्टाः'छुप्ता एकेकेचन सङ्घातम्-अधिकंगात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिक्यार्थत्वात्, खलुशब्दोऽवधारणे, अग्नेरेवायंप्रतापोनापरस्येति, यदिवा सप्तम्यर्थे द्वितीया स्पृष्टशब्दश्च पतितवचनः, ततश्चायमर्थो भवति–अग्नावेव स्पृष्टाः-पतिता 'एके शलभादयः ‘सङ्घातं' समेकीमावेनाधिकं गात्रसङ्कोचनम्, 'आपद्यन्ते' प्राप्नुवन्ति, ये च 'तत्र' अग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनः 'तत्र' अग्नौ पर्यापद्यन्ते, पर्यापत्तिः-सम्मूर्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारीति, उच्यते, मागधदेशीसमनुवृत्तेः व्याख्याविकल्पप्रदर्शनार्थं वा, अध्याहारादयोऽपि व्याख्यानानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति?,उच्यन्ते, अध्याहारो विपरिणामो व्यवहित-कल्पना गुणकल्पना लक्षणा वाक्यभेदश्चेति, इह च द्वितीयाविभक्तैः सप्तमीपरिणामः कृत इति । ये च 'तत्र' अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरन-कुलादयस्तत्राग्नावपद्रावन्ति-प्राणान्मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाशः किं त्वन्येषामपि पृथिवीतृणपत्रकाष्ठगोमयकचवराश्रितानां सम्पातिनां च व्यापत्तिरव-- श्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तम्-“दो पुरिसा सरिसवयाअन्नमन्नेहिं सद्धिं अगणिकायं समारंभति, तत्थणंएगे पुरिसे अगणिकायं समुजालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मयराए ? के पुरिसे अप्पकम्पयराए ?, गोयमा ! जे उज्जालेति से महाकम्मयराए, जे विज्झवेति से अप्पकम्मयराए" ।। तदेवं प्रभूतसत्त्वोपमनकरमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह म. (३९) एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिण्णाया भवंति, तं परिणाय मेहावीनेवसयंअगणिसत्यं समारंभे नेवऽन्नेहि अगणिसत्यंसमारंभावेजा अगणिसत्यं समारंभमाणे अन्ने न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हुमुणी परिण्णायकम्मे ति बेमि॥ घृ. 'अत्र' अग्निकाये 'शस्त्रं' स्वकायपरकायभेदभिन्नं 'समारभभाणस्य व्यापारयत इत्येते आरम्भाः पचनपाचनादयोवन्धहेतुत्वेनापरिज्ञाता भवन्ति, तथाअत्रैवाग्निकायेशस्त्रमसमारभमणस्यैते आरम्भाः परिज्ञाता भवन्ति, यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy