________________
आचाराङ्ग सूत्रम् 9/-19/४/३६
मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मान्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - 'इयाणी' त्यादि, यमहमग्निसमारम्भंविषयप्रमादेनाकुलीकृतान्तःकरणःसन् पूर्वमकार्षतमिदानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ।।
अन्येत्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह --
मू. (३७) लज्जमाणा पुढो पास-अनगारा मोत्ति एगे पवदमाणा जमिणं विख्वरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्यं समारमभमाणे अन्ने अणेगरुवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिधायहेउंसे सयमेव अगणिसत्यं समारभइ अण्णेहिं वा अगणिसत्यं समारंभावेइ अन्ने वा अगणिसत्यं समारभमाणे समणुजाणइ, तंसे अहियाएतं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अनगाराणं इहमेगेसिं नायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु नरए, इच्चत्थं गढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभमाणे अन्ने अणेगरूवे पाणे विहिंसइ।
वृ. अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते - 'लज्जमानाः' स्वागमोक्तानुष्ठानं कुर्वाणां सावद्यानुष्ठानेन वा लज्जा कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः पश्येति संयमानुष्ठाने स्थिरीकरणा) शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रतिधातहेतुं यत्करोति तद्दर्शयति- 'स' परिवन्दनाद्यर्थीस्वतएवाग्निशस्त्रंसमारभते तथा अन्यैश्चाग्निशस्त्रंसमारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेःसमारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेवच तस्याबोधिलाभाय भवति, 'स' इति यस्यै तदसदाचरणंप्रदर्शितं, सतुशिष्यसत्दग्निसमारम्भणंपापायेत्येवं सम्बुध्यमान 'आदानीय ग्राह्यं सम्यग्दर्शनादि ‘सम्यगुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम्?,तद्दर्शयति- 'एष' अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एवमार एष एवनरकस्तद्धेतुत्वादिति भावः, इत्येवमर्थंचगृद्धोलोको यत्करोति तद्दर्शयति यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्रं समारभते तन्त्रारंभपाणोऽ. न्याननेकरूपान् प्रणिनो विहिनस्तीति ।। ।
कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह - __ मू. (३८) से बेमि-संति पाणा पुढवीनिस्सिया तणनिस्सिया पत्तनिस्सिया कट्टनिस्सिया गोमयनिस्सिया कयवरनिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावजंति, जे तत्थं संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावजंति ते तत्थ उद्दायंति।
वृतदहंब्रवीमियथानानाविधजीवहिंसनमग्निकायसमारम्भेणभवतीति ।यथाप्रतिज्ञातार्थ दर्शयति – 'सन्ति' विद्यन्ते 'प्राणा' जन्तवः, पृथिवीकायनिश्रिताः पृथिवीकायत्वेन परिणता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org