________________
आचाराङ्ग सूत्रम् १/-/१/५/- [नि. १३३]
वृ. नानाविधं - भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि, तथा स्कन्धा अप्येकजीवाधिष्ठितास्तालसरलनालिकेर्यादीनां नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति, अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्याप्रतिपादितं भवति ।। साम्प्रतं प्रत्येकतरुजीवराशिपरिमाणाभिधित्स्त्याऽऽह-नि. [१३४] पत्तेया पज्जत्ता सेढीए असंखभागमित्ता ते । लोगासंखष्पज्जत्तगाण साहारणाणता ।।
वृ. प्रत्येकतरुजीवाः पर्याप्तकाः संवर्त्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवत्याकाशप्रदेशराशितुल्यप्रमाणाः, एते च पुनर्वादरतेजस्कायपर्याप्तकाराशेरसङ्घयेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसङ्घयेयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्घयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्तका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात् ?, साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः - साधारणवादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असङ्ख्येयगुणा- स्तेभ्योऽपि सूक्ष्माः पर्याप्तकाः असमयेयगुणा इति ॥ सम्प्रत्येषां तरुणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया निर्युक्तिकृदाहनि. [१३५]
६४
एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिझा चक्खुणा जे न दीसंति ॥
वृ. 'एतैः ' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्षं' साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि - न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथाच प्रयोगः - जीवशरीराणि वृक्षाः, अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम् “वृक्षादयोऽक्षाद्युपलब्धिभावात्पण्यादिसङ्घातवदेव देहाः ।
11911
तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानसुखादिमन्तः"
'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति । साम्प्रतं साधारणलक्षणमभिधित्सुराहसाहारणमाहारो साहारण आणपाणगहणं च ।
नि. [१३६ ]
साहारणजीवाणं साहारणलक्खणं एयं ॥
वृ. समानम् - एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः तेषां साधारणानाम्-अ -अनन्तकायानां जीवानां 'साधारणं' सामान्यमेकमाहारग्रहणं तथा प्राणापानग्रहणं च साधारणमेव, एतत्साधारणलक्षणम्, एतदुक्तं भवति एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तस्तथैकस्मिन्नुच्छुसिते निःश्वसिते वा सर्वेऽप्युच्छृसिता निःश्वसिता वेति ॥
अमुमेवार्थे स्पष्टयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org