SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:३ ये पुनःशाक्यादयोऽष्कायोपभोगप्रवृत्तास्ते नियमतएवाप्कार्यविहिंसन्ति, तदाश्रितांश्चान्यानिति, तत्र न केवलं प्राणातिपातापत्तिरेव तेषां किमन्यदित्य आह -- मू. (२७) अदुवा अदिनादाणं। वृ. अथवे ति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः,अशस्त्रोपहताप्कायोपभोगकारिणांन केवलंप्राणातिपातः, अपित्वदत्तादानमपि तत्तेषां, यतो थैरप्कायजन्तुभिर्यानिशरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते, यथा कश्चित् पुमान् सचितशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं, हि तस्य तत् , परपरिगृहीतत्वात्, परकीयगवाद्यादानवत्, एवं तानिशरीराण्यजीवपरिगृहीतानिगृह्णतोऽदत्तादानमवश्यम्भावि, स्वाम्यनुज्ञानाभावादिति, ननु यस्य तत्तडागकूपादि तेनानुज्ञातं सकृत्तत्पय इति, ततश्च नादत्तादानं, स्वामिनाऽनुज्ञातत्वात्, परानुज्ञातपश्वादिधातवत्, नन्वेदपि साध्यावस्थमेवोपन्यस्तं, यतः पशुरपि शरीरप्रदानविमुख एवभिन्नार्यमर्यादैरुच्चैरारटन्विशस्यते, ततश्च कथमिव नादत्तादानं स्यात् ?,नचान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति, त्रुट्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यद्दुःखितं स्वयं न भवति दासीबलीवादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हलखगादिवत्, एतद्व्यतिरिक्त दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तंच॥७॥ “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते तद्भवेद्देयम् ।।" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धानगाभ्युपगमद्वारेण परः परिजिहीर्षुराह - मू. (२८) कप्पइणे कप्पइणे पाउं, अदुवा विभूसाए। वृ. अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं त्वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं पातुम्' अभ्यवहर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहिआजीविकभस्मन्नाय्यादयोवदन्ति-पातुमस्माकंकल्पते न स्नातुंवारिणा, शाक्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्वं कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राहं दर्शयति अथवोदकं विभूषार्थमनुज्ञातंनः समये, विभूषा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षीलनामिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति । एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्यं किं कुर्वन्तीत्याह - मू. (२९) पुढो सत्येहिं विउट्टन्ति। वृ. 'पृथग्' विभिन्नलक्षणैः नानारूपैरुत्सेचनादिशस्त्रै अनगारायमाणाः 'विउद्दन्ति'त्ति अकायजीवान्जीवनाद्व्यावर्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुट्टेर्धातोः छेदनार्थत्वात् ।। अधुनैषामागमानुसारिणामागमासार-त्वप्रतिपादनायाह -- मू. (३०) एत्थऽवि तेसिं नो निकरणाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy