SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५२ आचाराङ्ग सूत्रम् १/-/१/३/२४ समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-‘सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति दर्शयति--' जीवा अणेगा' पुनजीवोपादान - मुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति - एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तन्निश्चितप्रभुतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः || शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति — भू. (२५) इहं च खलु भो ! अनगाराणं उदयजीवा वियाहिया सत्थं च इत्थं अष्णु वीइपासा वृ. खलुशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् ‘उदकजीवा' उदकरूपा जीवाश्चश्ब्दात्तदाश्रिताश्च पूतरकछेदनकलोद्दणक भ्रमरक मत्स्यादयो जीवा व्याख्याताः, अवदारणफलं च नान्येषामुदकरूपा जीवाः प्रतिपादिताः ।। यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपात भाजः साधव इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमष्कायमाचक्ष्महे- सचित्तं मिश्रमचित्तं च तत्र योऽचित्तोऽकायस्तेनोपयोगविधिः साधूनां नेतराभ्यां कथं पुनरसौ भवत्यचित्तः ? किं स्वभावादेवाहोश्विच्छ्रुस्त्रसम्ब न्धात् ?, उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्पर्कात्, तमचित्तं जानाना अपि केवलमनः पर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नुश्रूयते - भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाद्रहो व्यपगता - शेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधिइतानामपि पानाय नानुजज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि सामान्यश्रुतज्ञानी बाह्येन्धनसम्पक्रुषितस्वरुपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिबन्धनमेवेति, अतो यद्बाह्यशस्त्रसम्पक्वत् परिणामान्तरापत्रं वर्णादि -- भिस्तर्दिचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह शस्यन्ते - हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं, तच्चोत्सेचनगालनउपकरणधवनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणाः शस्त्रं, तथाहि - अग्निपुद्गलानुगतत्वादीषत्पिङ्गलं जलं भवत्युष्णं गन्धतोऽपि धूमगन्धि रसतो विरसं स्पर्शत उष्णं तच्चोद्वृ त्तत्रिदण्डम् एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीषगोमूत्रोषादीन्धनसम्बन्धात् स्तोकमध्यबहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शस्त्रं, शब्दोऽवधारणार्थः, अन्यतमशस्त्रसम्पर्क विध्वस्तमेव ग्राह्यं, नान्यथेति, 'एत्थ 'ति एतस्मिन् अप्काये प्रस्तुते 'अनुविचिन्त्य' विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यं, 'पश्ये' त्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रम - कायस्थातीति प्रतिपादितम् एतदेव दर्शयति मू. (२६) पुढो सत्यं पवेइयं । वृ. पुढो सत्थं पवेदितं ' 'पृथग्' विभिन्नमुत्सेचनादिकं शस्त्रं 'प्रवेदितम्' आख्यातं भगवता, पाठान्तरं वा 'पुढोऽपासं पवेदितं' एवं पृथग्विभिन्नलक्षणेन शस्त्रेण परिणामित- मुदकग्रहणमपाशं प्रवेदितम् - आख्यातं भगवता, अपाशः - अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धमाख्यातमितियावद् ।। एवं तावत्साधूनां सचित्तमिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy