________________
आचारात सूत्रम् १/-/१/३/३०
त
वृ. 'एतस्मिन्नपि ' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति 'कप्पइणे कप्पइणे पाउं, अदुवा विभूसाए 'त्ति एवंरुपस्तेषामयमागमो यद्धलादप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिर-भ्याहतः सन् 'नो निकरणाए' त्ति नो निश्चयं कर्तुं समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, एवं प्रष्टव्याः कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायरम्भः, त आहुः प्रतिविशिष्ठानुपुर्वीविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगमः, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवपरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तप्रणीतागमोऽपि सद्धर्म्मचोदनायामप्रमाणम्, अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं यतः शक्यते वक्तुं भवदभ्युपगतः समयः सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः अप्रमामसौ, नित्यत्वादाकाशवत् यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति, तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत्, कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्
119 11
५४
स्नानं मददर्प्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥"
शौचार्थोऽपि न पुष्कलो, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि ध्टं, तस्माच्छरीरवाङ्गमनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालं, तच्च वारिसाध्यं न भवति, कुतः ?, अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानां न हि मत्स्यादय. तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म्म क्षपयन्तीति, अतः स्थितमेतत्-तत्समयो न निश्चयाय प्रभवतीति ॥ तदेवं निःसपलमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफळप्रदर्शनद्वारेणोपसंजिहीर्षुः सकलमुद्देशार्थमाह
मू. (३१) एत्थ सत्यं समारभमाणस्स इच्छेए आरंभा अपरिण्णाया भवंति, एत्थ सत्यं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाया मेहावी नेव सयं दयसत्यं समारम्भेज्जा नेवण्णेहिं उदयसत्यं समारंभावेज्जा उदयसत्यं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जस्सेते उदयसत्यसमारंभा परिण्णाया भवंति से हु मुणी परिण्णातकम्मे त्ति बेमि ||
वृ 'एतस्मिन्' अप्काये 'शस्त्रं' द्रव्यभावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनापरिज्ञाता भवन्ति, अत्रैवान्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विका दर्शयति- 'तद्' उदरकारम्भणंबन्धायेत्येवं परिज्ञाय मेघावी मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान्समनुजानीयात्, यस्यैते उदकशस्त्रसमारम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् ॥
Jain Education International
अध्ययनं -१, उद्देशकः - ३ समाप्त :
For Private an
Use Only
www.jainelibrary.org