________________
४०
आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ९९]
नि. [ ९९ ]
पवयंति य अनगारा न य तेहि गुणेहि जेहि अनगारा । पुढविं विहिंसमाणा न हु ते वायाहि अनगारा ॥
वृ. इह ह्येके कुतीर्थिका यतिवेषमास्थाय एवं च प्रवदन्ति-वयम् 'अनगाराः ' प्रव्रजिताः, न च 'तेषु गुणेषु' निरवद्यानुष्ठानरूपेषु प्रवर्त्तन्ते, येष्वनगाराः, यथा चानगारगुणेषु न प्रवर्त्तन्ते तद्दर्शयति-यतस्तेऽहर्निशं पृथिवीजन्तुविपत्तिकारिणोद्दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथापि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्, अतश्च यतिगुणकलापशून्या न वाङ्गमात्रेण युक्तिनिरपेक्षेणानगारत्वं बिभ्रतीति, अनेन प्रयोगः सूचितः, तत्र गाथापूर्वार्द्धन प्रतिज्ञा, पश्चार्द्धेन हेतु:, उत्तरगाथार्द्धेन साधर्म्यदृष्टान्तः, स चायं प्रयोगः कुतीर्थिका यत्यभिमानवादिनोऽपि यतिगुणेषु न प्रवर्तन्ते पृथिवीहिंसाप्रवृत्तत्वाद्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न प्रवर्त्तन्ते, गृहस्थवत् ॥ साम्प्रतं दृष्टान्तगर्भं निगमनमाह --
नि. [१०० ] अनगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निद्दोसत्ति य मइला विरइदुगंछाइ मइलतरा ॥
बृ. अनगारवादिनो' वयं यतय इति वदनशीलाः पृथिवीकायविहिंसकास्सन्तो निर्गुणा यतोऽतः 'अगारिसमा ' गृहस्थ तुल्या भवन्ति, अभ्युच्चयमाह सचेतना पृथिवीत्येवं ज्ञानरहितत्वेन तत्समारम्भवर्त्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्वात्, 'मलिनाः' कलुषितहृदयाः, पुनश्चातिप्रगल्भतया साधुजनाश्रितावा निरवद्यानुष्ठानात्मिकाया विरतेः 'जुगुप्सया' निन्दया मलिनतरा भवन्ति, अनया च साधुनिन्दयाऽनन्तसंसारित्वं प्रदर्शितं भवतीति ॥
एतच गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वारावसरे नियुक्तिकृताऽभिहितं, तस्य स्वयंमेवोपात्तत्वेन तद्वयाख्यानस्य न्याय्यत्वात्, तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे त्यादि । अयं च वधः कृतकारितानुमतिभिर्भवतीति तदर्थाहकेई सयं वहंती केई अन्नेहि उ वहाविंती ।
नि. [१०१]
ई अणुमन्नंती पुढविकायं वहेमाणा ॥
वृ. स्पष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहनि. [ १०२ ] जो पुढवि समारंभइ अन्नेऽवि य सो समारभइ काए । अनियाए अ नियाए दिस्से य तहा अदिस्से य ॥
वृ. यः पृथ्वीकायं 'समारभते' व्यापादयति सः 'अन्यानपि ' अकायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बुरवटफलभक्षणप्रवृत्तः तत्फलान्तः प्रविष्ठत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाइति अकारणेन कारणेन च, यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान्' दहुरादीन् 'अदृश्यान्' पनकादीन् 'समारभत्ते' व्यापादयतीत्यर्थः । एतदेव स्पष्टतरमाहनि. [१०३]
पुढविं समारभतां हणंति तन्निस्सि ए य बहुजीवे । सुहुमेय बायरे य पज्जत्ते या अपजत्ते ॥
वृ. स्पष्टा, अत्र च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाह
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org