SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक: २ नि. [१३] आलेवण पहरण भूसणे य कथविक्कए किसीए य । भंडापि य करणे उवभोगविहीमणुस्साणं || वृ. चङ्क्रमणोर्द्धवस्थान निषीदनत्वग्वर्त्तनकृतकपुत्रककरणउच्चारप्रश्रवण उपकरणनिक्षेप आलेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ।। यद्येवं ततः किमित्यत आह नि. [१४] एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ वृ. एभिश्चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति-'सातं’ सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीयभोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, 'परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्तिउत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ।। अधुना शस्त्रद्वारं शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा- द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्त्रमपि समासविभागभेदाद्विधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहनि. [ ९५ ] हलकुलियाविसकुद्दालालित्तयमिगसिंगकट्टमग्गी य । उच्चारे पासवणे एवं तु समासओ सत्यं ॥ ३९ वृ. तत्र हलकुलिक विषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्न्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाह -- नि. [ ९६] किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अ असंजमो सत्थं ॥ वृ. किञ्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किञ्चित्परकायशस्त्रमुदकादि, तदुभयं किञ्चिदिति भूदकं मिलितं भुव इति । तच्च सर्वमपि द्रव्यशस्त्रं, भावेपुनः 'असंयमः ' दुष्प्रयुक्ता मनोवाक्कायाः शस्त्रमिति । वेदनाद्वारमाह - नि. [९७] पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं । जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ वृ. यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितातथा पृथिवीकायेऽपि वेदनां जानीहि ।। यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह - नि. [ ९८] नथियसि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥ Jain Education International वृ. पूर्वार्द्ध गतार्थं, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्त्तिनी बलवती आर्द्रामलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपट्टके कठिनशिलापुत्रकेण पिंष्यात्, ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घट्टितः कश्चित्परितापितः कश्चिद्व्यापादितोऽपरः किल तेन शिलापुत्रकेण न स्पृष्टोऽपीति ॥ वधद्वारमाह - For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy