________________
आधाराङ्ग सूत्रम् 9/19/२/-[नि.८६]
भवन्ति, शेषास्तुत्रयोऽपिराशयः प्रत्येकमसंख्येयानांलोकानामाकाशप्रदेशराशिप्रमाणाभवन्ति, यथानिर्दिष्टक्रमेणचैते यथोत्तरंबहुतराः, यत उक्तम्- “सव्वत्थोवा बादरपुढविकाइया पज्जत्ता, बादरपुढविकाइया अपज्जत्ता असंखेजगुणा, सुहुमपुढविकाइया अपज्जत्ता असंखेनगुणा सुहमपुढविकाइया पञ्जत्ता असंखेज्जगुणा" | प्रकारान्तरेणापि राशिलायस्य परिमाणं दर्शयितुमाह नि. [८७] पत्थेण व कुडवेण वजह कोइ मिणिज्ज सव्वधन्नाई।
एवं मविजमाणा हवंति लोया असंखिज्जा ॥ वृ. यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद्, एवमसद्भावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाहनान् पृथिवीकायिकजीवान्यदिमिनोतिततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ।। पुनरपि प्रकारान्तरेण परिमाणमाह - नि. [८८] लोगागासपएसे इक्विकं निक्खिवे पुढविजीवं।
एवं मविजमाणा हवंति लोआ असंखिज्जा ।। ७. स्पा । साम्प्रतं कालतःप्रमाण निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मबादरत्वमाहनि. [८९] निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं ।
अंगुलसेढीमित्ते ओसप्पिणीओ । असंखिजा ।। वृ. 'निपुणः' सूक्ष्मः कालः' समयात्मकः, ततोऽपिसूक्ष्मतरं क्षेत्रभवति, यतोऽङ्गुलीश्रेणिमानक्षेत्रप्रदेशानां समयापहारेणासंख्येया उत्सपिण्यवसर्पिण्योऽपनामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम्।। प्रस्तुतं कालतः परिमाणं दर्शयितुमाहनि. [१०] अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं ।
काए कायट्रिइया चउरो लोया असंखिज्जा । वृ. तत्रजीवाः पृथिवीकायेऽनुसमयं प्रविशन्तिनिष्कामन्तिच, एकस्मिन्, समये कियता निष्क्रमः प्रवेशश्च १-२, तथा विवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो विकल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परिणता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकशप्रदेश- परिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽहनि. [९१] बायरपुढविक्काइयपज्जत्तो अन्नमत्रमोगाढो।
सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥ वृ. बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवागादमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुत्पद्यमाना अनन्तरप्रक्रियया पर्याप्तकावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति॥उपभोगद्वारमाह - नि. [१२] चंकमणे यट्ठाणे निसीयण तुयट्टणे यकयकरणे।
उच्चारे पासवणे उवगरणाणंच निक्खिवणे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org