________________
४२६
आचाराङ्ग सूत्रम् २/२/४/-/५०४
अपि च-स भिक्षु क्षुल्लिका 'दारिकां' डिक्करिकां मण्डितालकृ तां बहुपरिवृतां 'निवुन्झमाणि तिअश्वादिनानीयमानां, तथैकंपुरुषवधायनीयमानं प्रेक्ष्याहमत्र किञ्चिच्छोष्या -मीति श्रवणार्थं तत्र न गच्छेदिति ॥ स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानिपापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारयेद् गन्तुमिति ।।
किञ्च-स भिक्षुर्महोत्सवस्थानानि यान्येवंभूतानि जानीयात, तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायनादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वेपसंहारार्थमाह ।
सः भिक्षु ऐहिकामुष्मिकापायभीरू नो नैव ऐहलोकिकैः' मनुष्यादिकृतैः पारलौकिकैः' पारापतादिकृतैरैहिकामुष्मिकैर्वा शब्दैः, तथाश्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धै रनुपलब्धैर्वा न सङ्गं कुर्यात् नरागं गच्छेत् न गाद्धर्यं प्रतिपद्येतनतेषु मुह्येत नाध्युपपत्रो भवेत्, एतत्तस्यभिक्षोः सामायं, शेषं पूर्ववत्।
इहच सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानीरागद्वेषसम्भव इति, एवमन्येऽपि दोषा ऐहिकामुष्मिकाषायभूताः स्वधिया समालोच्या इति॥
चूडा २ सप्तैककः-४ समाप्तः
-चूडा-२ ससैककः-५ "रूप":वृ. अथ पञ्चमं रूपसप्तैकःकमध्ययनम् । चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे रूपसप्तैकक इति नाम, तत्र रूपस्य चतुर्धा निक्षेपः, नामस्थापने अनात्य द्रव्यभावनिक्षेपार्थं नियुक्तिकृद् गाथाऽर्द्धमाहनि. [३२७] दव्वं संठाणाई भावो वन्न कसिणं सभावोय।
दव्वं सद्दपरिणयं भावो उ गुणा य कित्ती य॥ वृ. तत्र द्रव्यं नोआगमतो व्यतिरिक्तं पञ्च संस्थानानि परिमण्डलादीनि, भावरूपं द्विधावर्णतः स्वभावतश्च, तत्रवर्णतः कृत्स्नाः पञ्चापि वर्णा, स्वभावरूपंत्वन्तर्गतक्रोधादिवशाभूललाटनयनारोपणनिष्ठुरवागादिकम्, एतद्विपरीतं प्रसन्नस्येति उक्तञ्च॥9॥ "रुद्धस्स खरा दिट्ठी उप्पलधवला पसन्नचित्तस्स ।
दुहियस्स ओमिलायइ गंतुमणस्सुस्सुआ होइ॥ सूत्रानुगमे सूत्रं, तच्चेदम्
मू. (५०५) सेभि० अहावेगइयाइंसवाइंपासइ, तं गंथिमाणिवा वेढिमाणिवा पूरिमाणि वा संधाइमाणिवा कट्टकम्माणिवापोत्यकम्माणिवाचित्तक० मणिक० वादंतक. पत्तछिज्जकम्माणि वा विविहाणि वा वेढिमाइं अनयराइं० वि० चक्खुदंसणपडियाए नो अभिसंधारिज गमणाए, एवं नायव्वं जहा सद्दपडिमा सव्व वाइत्तवज्जा रूवपडिमावि।।
वृ.सभावभिक्षु कचित्पर्यटनथैकानि-कानिचिन्नानाविधानि रूपाणि पश्यति, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org