SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक 'प्रथितानि' ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि 'वेष्टिमानि' वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि 'पूरिमाणि' त्तियान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति 'संघातिमानि' चोलकादीनि 'काष्ठकर्माणि' रथादीनि 'पुस्तकर्माणि' लेप्यकर्माणि 'चित्रकर्माणि' प्रतीतानि 'मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा दन्दकर्माणि' दन्तपुत्तलिकादानि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेदमनाय एतानि द्रष्टुं गमने मनोऽपि न विदध्यादित्यर्थ । * ४२७ एवं शब्दसमैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्वेवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत्समायोज्या इति ॥ चूडा-२ सप्तैककः-५ समाप्तः -: चूडा-२ सप्तैकक:-६ परक्रिया : वृ. अथ षष्ठं परक्रियाभिधं सप्तैककमध्ययनम् । साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरं रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते इत्यनेन सम्बन्धेनायातस्यास्य नामनिष्पन्ने निक्षेपे परक्रियेत्यादानपदेन नाम, तत्र परशब्दस्य षड्विधंनिक्षेपं दर्शयितुं नियुक्तिकारो गाथाऽर्द्धमाहनि. [३२८](गावार्द्धम् )छक्कं परइक्किक्कं त १ दत्र २ माएस ३ कम ४ बहु ५ पहाणे ६ | षट्कं 'पर' इति परशब्दविषये नामादि षड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यादिपरमेकैकं षडिधं भवतीति दर्शयति, तद्यथा-तत्परम् १ अन्यपरम् २ आदेशपरं ३ क्रमपरं ४ बहुपरं ५ प्रधानपर ६ मिति, तत्र द्रव्यपरं तावत्तद्रूपतयैव वर्त्तमानं परमन्यत्तत्परं यथा परमाणोः परः परमाणुः १, अन्यपरं त्वन्यरूपतया परमन्यद्, यथा एकाणुकाद्वयणुकत्र्यणुकादि, एवं द्वयणुकादेकाणुकच्यणुकादि २, 'आदेशपरम्' आदिश्यते - आज्ञाप्यत इत्यादेशः यः कस्यांचित्क्रियायां नियोज्यते कर्मकरादि स चासौ परश्वादेशपर इति ३ । क्रमपरं तु द्रव्यादि चतुर्द्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं द्वयणुकात्रयणुकमित्यादि, क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाद् द्विसमयस्थितिकमित्यादि, भावतः क्रमपरमेकगुणकृष्णाद्विगुणकृष्णमित्यादि ४, बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्दहु तद्बहुपरं तद्यथा ॥१॥ "जीवा पुग्गल समया दव्व पएसा य पज्जवा चेव । - थोवाणं तानंता विसेस अहिया दुवेऽनंता ॥ तत्र जीवाः स्तोकाः तेभ्यः पुद्गला अनन्तगुणा इत्यादि ५, प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः चतुष्पदानां सिंहादि अपदानामर्जुनसुवर्णपनसादि ६, एवं क्षेत्रकालभावपराण्यपि तत्परादिषड्विधत्वेन क्षेत्रादिप्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु जम्बूद्वीपक्षेत्रात्पुष्करादिकं क्षेत्रं परं कालपरंतु प्रावृट्कालाच्छरत्कालः, भावपरमौदयिकादीपशमिकादि ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्छेदम् मू. (५०६) परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमजिज्ज वा पमजिज्ज वा नो सं सायए नो तं नियमे । से सिया परो पायाई संबाहिज्ज वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy