________________
४०२
आचाराङ्ग सूत्रम् २/१/४/२/४७२
स भिक्षुर्बहुसम्भूतफलानाम्रान् प्रेक्ष्यैवं वदेत्, तद्यथा-'असमर्था' अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थ, एतेन पक्वार्थ उक्तः, तथा 'बहुनिर्वर्तितफलाः ' बहूनि निर्वर्त्तितानि फलानि येषु ते तथा, एतेन पाकखाद्यार्थ उक्तः, तथा 'बहुसम्भूताः' बहूनि संभूतानि पाकातिशयतो ग्रहण कालोचितानी फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा 'भूतरूपाः' इति वा भूतानि रूपाण्यनववद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षितः, एवंभूता एते आम्राः, आम्रग्रहणं प्रधानोपलक्षणम्, एवं भूतामनवद्यां भाषां भाषेतेति ।। किञ्च
स भिक्षुर्बहुसम्भूता ओषधीर्वीक्ष्य तथाऽप्येता नैतद्वदेत्, तद्यथा पक्वा नीला आद्रा छविमत्यः 'लाइमाः' लाजायोग्या रोपणयोग्या वा, तथा 'भजिमाओ 'त्ति पचनयोग्या भञ्जनयोग्या वा 'बहुखजा' बहुभक्ष्याः पृथुक्क रणयोग्या वेति, एवंप्रकारां सावद्यां भाषां नो भाषेत ॥ यथा च भाषेत तदाह- स भिक्षुर्बहुसंभूता ओषधीः प्रेक्ष्यैतद् ब्रूयात्, तद्यथा रूढा इत्यादिकामसावद्यां भाषा भाषेत ।। किञ्च
मू. (४७३) से भिक्खू वा० तहप्पगाराई सद्दाई सुणिज्जा तहावि एयाइं नो एवं वइज्जा, तंजा - सुसद्देति वा दुसद्देत्ति वा, एयप्पगारं भासं सावज्रं नो भासिज्जा ।
से भि० तहावि ताई एवं वइज्जा, तंजहा-सुसद्दं सुसद्दित्ति वा दुसद्दं दुसद्दित्ति वा, एयप्पगारं असावज्रं जाव भासिज्जा, एवं रुवाई किण्हेत्ति वा ५ गंधाई सुरभगंधित्ति वा २ रसाई तित्ताणिवा ५ फासाई कक्खडाणि वा ८ ॥
वृ. स भिक्षुर्यद्यप्येतान् शब्दान् श्रृणुयात् तथाऽपि नैवं वदेत्, तद्यथा-शोभनः शब्दोऽशोभनो वा माङ्गलिकोऽमाङ्गलिको वा, इत्ययं न व्याहर्त्तव्यः ॥
विपरीतं त्वाह-यथाऽवस्थितशब्दप्रज्ञापनाविषये एतद्वदेत्, तद्यथा- 'सुसद्दं' ति शोभनशब्दं शोभनमेव ब्रूयाद्, अशोभनं त्वशोभनमिति । एवं रूपादिसूत्रमिप नेयम् ।। किञ्च
मू. (४७४) से भिक्खू वा० वंता कोहं च माणं च मायं च लोभं च अणुवीइ निट्टाभासी निसम्मभासी अतुरियभासी विवेगभासी समियाए संजए भासं भासिज्जा ५ ।। एवं खलु. सया जइत्तिबेमि ॥
वृ. सभिक्षु क्रोधादिकं वान्त्वैवंभूतो भवेत्, तद्यथा- अनुविचिन्त्य निष्ठाभाषी निशम्यभाषी अत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां भाषेत एतत्तस्य भिक्षोः सामग्यम् ॥ चूडा-१ अध्ययनं ४ उद्देशकः -२ समाप्तः
अध्ययनं-४ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता - शीलाङ्काचार्य विरचिता द्वितीय श्रुतस्कन्धस्य चतुर्य अध्ययन टीका परिसमाप्त
अध्ययनं - ५ वस्त्रैषणा ।
वृ. चतुर्थाध्ययनानन्तरं पञ्चमभारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने भाषासमिति प्रतिपादिता, तदनन्तरमेषणासमितिर्भवतीति सा वस्त्रगता प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि भवन्ति, तत्रोपक्रमान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org