________________
४०३
श्रुतस्कन्धः -२, चूडा-१, अध्ययन - ५, उद्देशक: गतोऽध्ययनार्थाधिकारोवस्त्रैषणा प्रतिपाद्येति, उद्देशार्थाधिकारदर्शनार्थं तु नियुक्तिकार आहनि. [३१८] पढमे गहणं बीए धरणंपगयं तु दव्ववत्थेणं।
एमेव होइ पायंभावे पायं तु गुणधारी॥ वृ.प्रथमेउद्देशके वस्त्रग्रहणविधिप्रतिपादितः, द्वितीयेतुधरणविधिरिति ।। नामनिष्पन्न तुनिक्षेपेवस्त्रैषणेति, तत्र वस्त्रस्य नामादिश्चतुर्विधोनिक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवस्त्रं त्रिधा, तद्यथा-एकेन्द्रियनिष्पन्नंकासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेन्द्रियनिष्पन्न कम्बलरलादि, भाववस्त्रं त्वष्टादशशीलाङ्गसहस्त्राणीति, इह तु द्रव्यवस्त्रेणाधिकारः, तदाहनियुक्तिकारः
पगयं तु दव्यवस्थेणं'ति । वस्त्रस्येव पात्रस्यापि निक्षेप इति मन्यमानोऽत्रैव पात्रस्यापि निक्षेपातिनिर्देशं नियुक्तिकारो गाथापश्चा?नाह-'एवमेव' इतिवस्त्रवत्पात्रस्यापिचतुर्विधोनिक्षेपः, तत्र द्रव्यपात्रमेकेन्द्रियादिनिष्पत्रं, भावपात्रं साधुरेव गुणधारीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तञ्चेदम्
-चूडा-१ अध्ययनं-५ उद्देशकः-१:मू. (७५) से भि० अभिकंखिज्जा वत्थं एसित्तए, से जं पुण वत्थं जाणिज्जा, तंजहाजंगियंवा भंगियंवा साणियंवा पोत्तगं वाखोमिर्यवातूलकडंवा, तहप्पगारंवत्थंवाजे निग्गंथे तरुणे जुगवं बलवं अप्पयंके थिरसंघयणे से एगं वत्थं धारिला नो बीयं, जा निग्गंथी सा चत्तारिसंघाडीओधारिजा, एगंदुहत्यवित्थारंदोतिहत्यवित्थाराओएगं चउहत्यवित्थारं, तहपगारेहि वत्थेहिं असंधिज्जमाणेहिं, अह पच्छा एगमेगं संसिविता ।।
वृ. स भिक्षुरभिकाळेद्वस्त्रमन्वेष्टु तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात्, तद्यथा-जंगियंति जङ्गमोष्ट्राधूर्णानिष्पन्नं, तथा 'भंगिय'ति नानामङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणयंति सणवल्कलनिष्पन्नं पोत्तगंति ताड्यादिपत्रसझतनिष्पन्नं खोमियंतिकासिकं 'तूलकडंति अक्कादितूलनिष्पन्नम्, एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तद्दर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुयौवने वर्तते 'बलवान्' समर्थ 'अल्पातङ्कः' अरोगी 'स्थिरसंहननः' ढकायो दधृतिश्च, स एवंभूतः साधुरेकं वस्त्रं प्रावरणं त्वकत्राणार्थंधारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते बिमर्तितस्य स्वयंपरिभोगनकुरुते, यः पुनर्बालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि द्वयादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत्न तत्रापवादोऽस्ति।
यापुनर्निर्ग्रन्धी साचतम संघाटिका कारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्वलां भिक्षाकाले प्रावृणोति, अपरां वहिर्भूमिगमनावसर इति, तथाऽपरां चतुर्हस्तविस्तरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ।। किञ्च
मू. (७६) से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए। वृ.स भिक्षुर्वस्त्रार्थमद्धयोजनात्परतो गमनाय मनोन विदध्यादिति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org