________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:२
नि. [७२] दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी ।
सण्हा य पंचवण्णा अवराछत्तीसइविहाणा ॥ वृ. समासतः' संक्षेपाद्विविधा बादरपृथिवी-श्लक्ष्णबादरपृथिवी खरबादरपृथिवीच, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्तवन्येऽपि षट् त्रिंशद्विशेषभेदाः सम्भवन्तीति ।। तानाहनि. [७३] पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे ।
अय तंब तउअ सीसग रुप्पसुवण्णे यवइरे य ।। नि. [७४] हरियाले हिंगुलए मणोसिला सासगंजण पवाले ।
अब्मपडलम्भवालुअबायरकाए मणिविहाणा ।। नि. [७५] गोमेज्जए य रुयगे अंको फलिहे य लोहियखे य ।
मरगय मसारगल्ले मुयमोयग इंदनीले य ।। नि. [७६] चंदप्पह वेरुलिए जलकंतेचेव सूरकन्ते य।
एए खरपुढवीए नामं छत्तीसयं होइ। वृ. अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्ट इति कृत्वानविवृताः। एवं सूक्ष्मबादरभेदान्प्रतिपाद्यपुनर्वर्णादिभेदेनपृथिवीभेदान् दर्शयितुमाह नि. [७७] वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा ।
णेगाइ सहस्साई हुंति विहाणंभि इक्विक्के । वृ.तत्र वर्णाः शुक्लादयः पञ्चरसास्तिक्तादयः पञ्चगन्धौसुरभिदुरभी स्पर्शाः मृदुकळशादयः अष्टौ, तत्र वर्णादिके एकैकस्मिन्, योनिप्रमुखा' योनिप्रभृतयः संखअयेया भेदाभवन्ति, संरव्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानिसहाणि एकैकस्मिन् वर्णादिके विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति। एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्याएवं सम्भावनीयमिति।
उक्तंचप्रज्ञापनायाम्-"तत्यणंजेतेपज्जत्तगाएएसिणंवण्णादेसेणंगंधादेसेणंरसादेसेणं फासादेसेणंसहस्साग्गसो विहाणाईसंखेजाइजोणिपमुहसयसहस्साईपज्जत्तयनिस्साए अपजत्तया वक्कमंति, तंजत्थेगो तत्थ नियमाअसंखेना, सेत्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचिता अचिता मिश्रावा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह - नि. [७८] वण्णंमि य इक्कि के गंधमिरसंभितह य फासंभि ।
नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ।। वृ. वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहानशो नानात्वं विधेयं, तथाहि-कृष्णो वर्ण इति सामान्यं, तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाभेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगासरकेसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org