________________
३६
आचाराङ्ग सूत्रम् १/-/१/२/- [नि. ७८ ]
प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः । पुनरपि पर्याप्तकादिभेदाभेदमाह जे बायरे विहाणा पज्जत्ता तत्तिआ अपजत्ता । सुहमावि हुंति दुविहा पज्जता चेव अपजत्ता ।।
नि. [७९]
वृ. यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्ये- वापर्याप्तकानामपि, अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु
119 11
'आहारसरीरिन्दियऊसासवओमणोऽहिनिव्वत्ती ।
होति जतो दलियाओ करणं पइ सा उपजत्ती ।"
जन्तुरुत्पद्यमानः पुद्गलोपादानेन करणं निर्वर्तयति तेन च करणविशेषेणाहारमवगृह्य पृथग् खलरसादिभावेन परिणतिं नयति स ताध्क्करणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रै केन्द्रियाणामाहारशरीरेन्द्रियोच्छावसाभिधानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्तिस्तु पर्याप्तक इति, अत्र च पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मबादरादयो भेदाः सिद्धयन्ति तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाह
नि. [ ८० ]
क्खाणं गुच्छाणं गुम्माण लयाण वल्लिक्लयाणं । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ॥
वृ. यथा वनस्पतेर्वृक्षादिभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा पृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः - चूतादयो गुच्छावृन्ताकीसल्लकी कर्पास्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लताः पुन्नागाशोकलताद्याः, वल्लयः त्रपुषीवालुङ्कीकोशातक्याद्याः, वलयानि - केतकीकदल्यादीनि ॥ पुनरपि वनस्पतिभेदद्दष्टान्तेन पृथिव्या भेदमाह -
नि. [ ८१ ] ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जहदीस नाणत्तं पुढवीकाए तहा जाण ॥
वृ. यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यःशाल्याद्याः, तृणानि-दर्भादीनि, सेवालं- जलोपरि मलरूपं, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम्-उशीरादीति ॥ एते च सूक्ष्मत्वान्नैकद्वयादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्मयन्ते तद्दर्शयितुमाह -
नि. [८२] इक्कस्स दुण्ह तिण्ह व संखिजाण व न पासिउं सक्का ।
दीसंति सरीराइं पुढविजियाणं असंखाणं ।।
वृ. स्पष्टा ॥ कथं पुनरिदमवगन्तव्ययम् ?, सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धेः अधिष्ठातरि प्रतीतिर्गवाश्वादाविव इति, एतद्दर्शयितुमाह
नि. (८३]
Jain Education International
एएहि सरीरे हिं पञ्चक्खं ते परूविया हुंति । सेसा आणागिज्झा चक्खुफासं न जं इंति ।।
For Private & Personal Use Only
—
www.jainelibrary.org