________________
३४
आचाराङ्ग सूत्रम् 9/19/२/
(अध्ययनं-१, उद्देशकः-२) उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रस्तूयते-अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्, इदानीं तस्यैवेकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह-यदिवा प्राक् परिज्ञातकर्मत्वं मुनितवकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वान्मुनि भवति-विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भमीति, अथ क एते पृथिव्यादय इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति । अनेनाभिसम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुवोगद्वाराणि वाच्यानि, यावन्नामनिष्पन्नेनिक्षेपेपृथिव्युद्देशक इति, तत्रोद्देशकस्यनिकक्षेपादेरन्यत्र प्रतिपादितत्वान्नेह प्रदर्श्यते, पृथिव्यास्तु यनिक्षेपादि सम्भवति तन्नियुक्तिकृद्दर्शयितुमाह - नि. [६८] पुढवीए निखेवो परूवणालक्खणं परीमाणं ।
उवभोगो सत्थं वेयणा य वहणा निवत्तीय ॥ वृ. प्राग्जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच्च नाशङ्कनीयं, यतो जीवसामान्यस्य विशेषाधारत्वा विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्यचोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्यचिन्तितत्वादिति। तत्र पृथिव्या नामादिनिक्षेपोवक्त्व्यः,प्ररूपणासूक्ष्मबादरादिभेदा, लक्षणं-साकारानाकारोपयोगकाययोगादिकं, परिमाणं-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम्, उपभोगः-शयनासनचङक्रमणादिकः, शस्त्र-स्नेहाम्लक्षारादि, वेदनास्वशरीराव्यक्त-चेतनानुरूपासुखदुःखानुभवस्वभावा, वधःकृतकारितानुमतिभिरुपमर्दनादिकः, निवृत्तिः- अप्रम- त्तस्य मनोवाक्कायगुप्तयाऽनुपमद्दकिति समासार्थः । व्यासार्थं तु नियुक्तिकृद्यथाक्रममाह -- नि. [६९] नामंठवणापुढवी दव्वपुढवी य भावपुढवी य।
एसो खलु पुढवीए निक्खेवो चउविहो होइ॥ वृ. स्पष्टा, नामस्थापने क्षुण्णत्वादनाद्दत्याहनि, [७०] दव्वं सरीरभविओ भावेण य होइ पुढविजीवो उ।
जो पुढविनामगोयं कम्मं वेएइ सो जीवो॥ वृ. दव्यपृथिवी आगमतोनोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवोपेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो-बालादिस्ताभ्यां विनिर्मुक्तो द्रव्यापृथिवीजीवः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् - नि. [७१] दुविहा य पुढविजीवा सुहुमा तह बायरा य लोगंमि ।
सुहुमा य सव्वलोए दो चेव य बायरविहाणा ।। १. पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्षक्षमाः, वादरनामकर्मोदयात् बादराः, कर्मोदयजनिते एवैषां सूक्ष्मबादरत्वे न त्वापेक्षिके बदरामलकयोरिव ।।
तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org