________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक : १
7
तथा मुक्त्यर्थमज्ञा- नावृतचेतसः पश्चाग्नितपोऽनुष्ठानादिकेषु प्राण्युपमर्द्दकारिषु प्रवर्त्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते । 'जाइमरणभोयणाए 'त्ति वा पाठान्तरं तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्त्तमाना वसुधाजलज्वलनपवनवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यामपरित्राणार्थमारम्भानासेवन्ते, तथाहि -व्याधि-वेदनार्त्ता लावकपिशितमदिराद्यासेवन्ते, तथा वनस्पतिमूलत्वक्पत्रनिर्यासादिसिद्धशतपा- कादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः कारयन्त्यन्यैः कुर्वतोऽन्यान् समनुजानत इत्येवमतीतानागतकालयोरपि मनोवाक्काययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा दुःखप्रतिधातार्थमेव सुखोत्पत्त्यर्थं च कलत्रपुत्रगृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्त्तमानाः पापकर्मासेवन्त इति, उक्तं च"आदौ प्रतिष्ठाऽधिगमे प्रयासो, दारेषु पश्चाद्गृहिणः सुतेषु । कर्त्तु पुनस्तेषु गुणप्रकर्षं, चेश तदुच्चैः पदलङ्घनाय ॥"
-
119 LI
तदेवंभूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति अनेकरूपासु च योनिषु सन्धावन्ति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति, इत्येतज्ज्ञाञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ॥ एतावन्त एव च क्रियाविशेषा इति दर्शयितुमाह
३३
मू. (१२) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ।
बृ. 'एआवन्ती सव्वावन्तीति एतौ द्वौ शब्दौ मागधदेशीभाषाप्रसिद्धया तावन्तः सर्वेऽपीत्येतत्पर्यायौ, एतावन्त एव सर्वस्मिन्, 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभः खण्डे ये पूर्व प्रतिपादिताः 'कर्म्मसमारम्भाः' क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिती भावः तथाहि आत्मपरोभयैहिकामुष्मिकातीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवमायोज्या इति ।। एवं सामान्येन जीवास्तित्वं प्रसाद्य तदुपमर्द्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह -
*
मू. (१३) जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्तिबेमि ॥
13
Jainion International
वृ. भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह - 'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रियाविशेषाः कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाउपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः स एव मुनिर्झपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन च मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्- “ज्ञानक्रियाभ्यां मोक्ष'' इति । इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः, यदिवा 'इति' एतदहं ब्रवीभि यव्प्रागुक्त यच्च वक्ष्ये तत्सर्वं भगवदन्तिके साक्षात् श्रुत्वा ॥
अध्ययनं -१, उद्देशकः-१ समाप्त :
For Private & Personal Use Only
www.jainelibrary.org