________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं. १, उद्देशकः:११
३६७ पञ्चस्वभिग्रहः इत्यनेन विहरन्ति' यतन्त इति, यथाविहारिणश्च सर्वेऽपि तेजिनाज्ञांनातिलङ्घन्ते, तथा चोक्तम्॥१॥ “जोऽवि" दुवत्थतिवत्थो बहुवत्थ अचेलओव्व संथरइ ।
नहु ते हीलंति परंसव्वेविअते जिणाणाए" एतत्तस्य भिक्षोभिक्षुण्या वा ‘सामग्य' सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति
चूडा-१, अध्ययन-१, उद्देशकः-११ समाप्तः
चूडा-१, अध्ययन-१ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वितीय श्रुतस्कन्धस्य प्रथमअध्ययनटीका परिसमाप्ता
(अध्ययन-२ शय्यैषणा) उक्तंप्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः,सचगृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरुपणार्थं द्वितीयमध्ययनम्, अनेनचसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानियुक्तिर्यत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां चनियुक्तीनां यथायोगंसंभवंद्वितीयगाथयाआविर्भाव्य निक्षेपंचतृतीयगाथया शय्याषट्कनिक्षेपे प्राप्ते नामस्थापने अनाध्त्य नियुक्तिकृदाहनि, [३०१] दव्वे खित्ते काले भावे सिजाय जा तहिं पगयं ।
केरिसिया सिज्जा खलु संजयजोगत्ति नायव्वा ।। वृ. द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीद्दशी सा द्रव्यशय्या? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ।।
द्रव्यशय्या-व्याचिख्यासयाऽऽहनि. [३०२] तिविहाय दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव ।
खित्तंमि जंमि खित्ते काले जा जंमि कालंमि।। वृ. त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता प्रथिवीकायादौ, अचित्तातत्रैवप्रासके. मिश्राऽपितत्रैवार्द्धपरिणते, अथवा सचित्तामत्तरगाथया स्वत एव नियुक्तिकृद् भावयिष्यति । क्षेत्र मिति तु क्षेत्रशय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्यातुयायस्मिन्न तुबद्धादिकेकाले क्रियते।तत्रसचित्तद्रव्यशय्योदाहरणार्थमाहनि. [३०३] उक्कलकलिंग गोअम वग्गुमई चेव होइ नायव्वा ।
एयं तु उदाहरणं नायव्वं दव्वसिज्जाए । अस्या भावार्थकथानकादवसेयः, तश्चेदम्-एकस्यामटव्यांद्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पल्लिं निवेश्य चौर्येण वर्तेते,तयोश्च भगिनीवल्गुमती नाम, तत्रकदाचिद्गौतमाभिधानो नैमित्तिकः समायातः, ताम्यां च प्रतिपन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org