________________
३६८
आचाराङ्गसूत्रम् २/१/२/-/- [नि. ३०३]
यदातदाऽयमस्माकंपल्लिविनाशाय भविष्यत्यतो निद्धाट्यते, ततस्ताभ्यां तद्वचनान्निर्धाटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा
नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव वल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गौ नैमित्तिकौ, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्धाटितवती, अतस्तप्रद्वेषाप्रतिज्ञामादाय सर्षपान् वपनिर्गतः, सर्षपाश्च वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वासचित्ता द्रव्यशय्येति ।। भावशय्याप्रतिपादनार्थमाहनि. [३०४] दुविहाय भावसिज्जा कायगए छविहे य भामि।
भावे जो जत्थ जया सुहदुहगष्माइसिज्जासु ।। वृ. द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षङ्भावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे यदा' यस्मिन् काले वर्ततेसा तस्य षङ्माभावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा स्त्र्यादिकायगतो गर्भत्वेन स्थितोयोजीवस्तस्य स्त्र्यादिकाय एव भावशय्या, यतः स्त्र्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तागवस्थ एव तदन्तर्वर्ती जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः, उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाहनि. [३०५] सब्वेविय सिजविसोहिकारगा तहवि अस्थि उ विसेसो।
उद्देसे वुच्छामि समासओ किंचि॥ दृ. 'सर्वेऽपि' त्रयोऽप्युद्देशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहनि. [३०६] उग्गमदोसा पढमिल्लुयंमि संपत्तपच्चवाया य१।
बीयंमि सोअवाई बहुविहसिज्ञाविवेगो २ य॥ वृ.तत्रप्रथमोद्देशके वसतेरुद्गमदोषाः-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते?, तथा द्वितीयोद्देशके शौचवादिदोषाबहुप्रकारःशय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः२॥ नि. [३०७] तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयव्वं ।
समविसमाईएसुयसमणेणं निजरट्ठाए ३ ॥ वृ. तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्यमर्थाधिकारः३॥गतो नियुक्त्यनुगमः, अधुना सूत्रानुगमे सूत्रमुचारयितव्यं, तच्चेदम्
-चूडा-१, अध्ययन-२, उद्देशकः:मू. (३९८) से भिक्खू वा० अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गामं वा जाव रायहाणिं वा, से जंपुण उवस्सयं जाणिजा सअंडंजाव असंताणयंतहप्पगारे उवस्सए नो ठाणं वा सिकंवा निसीहियंवाचेइज्जा ।। सेभिक्खू वा० से जंपुण उवस्सयं जाणिज्जा अप्पंडंजाव अप्पसंताण्यं तहप्पगारे उवस्सए पडितोहिता पमज्जित्ता तओ संजयामेव ठाणं वा३ चेइज्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org