________________
३६६
आचाराङ्ग सूत्रम् २/१/9/११/३९६ हस्तः संसृष्टंमानंसावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तुभङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ।
अपराचतुर्थीपिण्डैषणाऽल्पलेपानाम, सा यत्पुनरेवमल्पलेपंजानीयात्, तद्यथा-'पृथुकम्' इतिभुग्नशाल्याद्यपगततुषं योक्त् तन्दुलपलम्ब इतिभुग्नशाल्यादितन्दुलानिति, अत्रचपृथुकादिके गृहीतेऽप्यल्पंपश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पंतुषादित्यजनीयमित्येवंप्रकारमल्पलेपम्, अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति।
अथापरापञ्चमी पिण्डैषणाऽवगृहीतानाम, तद्यथा-सभिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं 'डिण्डिमं' कंश (कांस्य) भाजनं 'कोशकं प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्र कंवा धौतं स्यात्, तथा च निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः-परिणतः पाण्यादिपूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति।
अथापराषष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थंपरार्थवापिठरकादेरुध्धृत्त्यचट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिका 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापनां वा' हस्तस्थितां वा यावप्रतिगृह्णीयादिति ।
अथापरा सप्तमी पिण्डैषणा उज्झितधर्मिका नाम, सा च सुगमा । आसु च सप्तस्वपि पिण्डैषणासुसंसृष्टाद्यष्टभङ्गका भणनीयाः, नवरंचतुर्थ्यांनानात्वमिति,तस्याअलेपत्वात्संसृष्टाद्यभाव इति।
एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्यां नानात्वं, स्वच्छत्वाञ्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभाव इति, आसांचैषणाना यथोत्तरं विशुद्धितारतम्यादेष एव क्रमो न्याय्य इति ॥ साम्प्रतमेताः प्रतिपद्यमानेन पूर्वप्रतिपन्नेन वा यद्विधेयं तद्दर्शयितुमाह
मू. (३९७) इञ्चेयासिं सत्तण्हं पिंडेसणाणं सत्तण्हपाणेसणाणं अन्नयरंपडिमंपडिवजमाणे नो एवं वइजा-मिच्छापडिवना खलु एए भयंतारो, अहमेगे सम्म पडिवन्ने, जे एए भयंतारो एयाओ पडिमाओ पडिवजित्ता णं विहरति जो य अहमंसि एयं पडिमं पडिवज्जित्ताणं विहरामि सव्वेऽविते उजिणाणाए उवट्ठिया अनुन्नसमाहीए, एवं चणं विहरंति, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।।।
वृ. इत्येतासां सप्तानां पिण्डैषणानांपानैषणानांवाऽन्यतरांप्रतिमांप्रतिपद्यमानो नैतद्वदेत, तद्यथा-'मिथ्याप्रतिपन्नाः' न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः-साधवः, अहमेवैकः सम्यक्प्रतिपन्नौ, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न, इत्येवं गच्छनिर्गतेन गच्छान्तर्गतेन वा समदृष्टया द्रष्टव्याः, नापि गच्छान्तर्गतेनोत्तरोत्तरपिण्डैषणाभिग्रहवता पूर्वपूर्वतरपिण्डैषणाभिग्रहवन्तो दूष्या इति, यच्च विधेयं तद्दर्शयति ।
य एते भगवन्तः-साधवएताः 'प्रतिमाः' पिण्डैषणाघभिग्रहविशेषान् ‘प्रतिपद्य' गृहीत्वा ग्रामानुग्रामं 'विहरन्ति' यथायोगंपर्यटन्ति, यांचाहंप्रतिमांप्रतिपद्य विहरामि, सर्वेऽप्येते जिनाज्ञायां जिनाज्ञया वा ‘समुस्थिताः' अभ्युद्यतविहारिणः संवृत्ताः, ते चान्योऽन्यसमाधिना यो यस्य गच्छान्तर्गतादेः समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, तनिर्गतानां तु द्वयोरग्रहः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org