SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं- १, उद्देशक:८ ३५५ मू. (३७७) से भिक्खू वा २ सेजं पुण पाणगजायं जाणिजा, तंजहा-अंबपाणगं वा १० अंबाडगपाणगंवा ११ कविठ्ठपाण०-१२ माउलिंगपा०१३ मुद्दियाणा १४ दालिमपा० १५ खजूरपा०१६ नालियेरपा०१७करीरपा०१८ कोलप०१९ आमलपा०२० चिंचापा०२२ ___अन्नयरं वा तहप्पगारं पाणगजातं सअडियं सकणुयं सवीयगं अस्संजए भिक्खुपडियाए छब्बेण वा दूसेण वा वालगेण वा आविलियाण परिवीलियाण परिसावियाण आहटु दलइन्जा तहप्पगारं पाणगजायं अफा० लाभे संते नो पडिगाहिज्जा ।। वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवंभूतं पानकजातं जानीयात्, तद्यथा'अंबगपाणगंवे' त्यादि सुगम, नवरं मुद्दिया' द्राक्षाकोलानि-बदराणि, एतेषुचपानकेषुद्राक्षाबद राम्बिलिकादिकतिचित्पानकानि तत्क्षणमेव संमद्य क्रियन्ते अपराणित्वाभ्राम्बाडकादिपानकानि द्वित्रादिदिनसन्धानेन विधीयन्तइत्येवभूतंपानकजातं तथाप्रकारमन्यदपि सास्थिकं सहास्थिना कुलकेन यद्वर्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्तते, तथा बीजेन सह यद्वर्तते, अस्थिबीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातम् । असंयतः गृहस्थो भिक्षुमुद्दिश्य-साध्वर्थ द्राक्षादिकमामर्घपुनर्वशत्वग्निष्पादितच्छब्बकेन वा, तथादूसं-वस्त्रंतेन वा, तथा वालगेणं'ति गवादिवालधिवालनिष्पन्नचालनकेन सुधरिकागृहकेन वा इत्यादिनोपकरणेनास्थ्याद्यपनयनार्थं सकृदापीड्य पुनः पुनः परिपीड्य, तथा परिस्राव्य, निर्गाल्याहय च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोषदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात्, ते चामी उद्गमदोषाः॥१॥ “आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अमीसजाए अ४। ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिञ्चे ९ ॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे १३ इअ । अच्छेजे १४ अनिसट्टे १५ अज्झोअरए १६अ सोलसमे। साध्वर्थं यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १ । तथाऽऽत्मार्थं यत्पूर्वसिद्धमेव लड्डुकचूर्णकादि साधुमुद्दिश्य पुनरपि गुडादिना संस्क्रियते तदुद्देशिकंसामान्येन, विशेषतो विशेषसूत्रादवगन्तव्य मिति २। यदाधाकर्माद्वयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थामादेरारभ्याहारपरिपाको मिश्रम् ४ । साथ शीरादिस्थापनं स्थापना भण्यते ५।प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६ । साधूनुद्दिश्य गवाक्षादिप्रकाशकरणं बहिर्वा प्रकारो आहारस्य व्यवस्थापनं प्रादुष्करणम् । द्रव्यादिविनिमयेन स्वीकृतंक्रीतम् ८। साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्पामिञ्चंति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्तय ददाति तत्परिवर्तितम् १० । यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुद्भिन्नम् १२ । मालाधवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तोकस्य ददतोऽनिसृष्टम् १५। स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ । तदेवमन्यतमेनापि दोषेण दुष्टं प्रतिगृह्णीयादिति ।। पुनरपि भक्तपानविशेषमधिकृत्याह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy