________________
३५०
आचाराङ्ग सूत्रम् २/१/१/६/३६७ कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थ, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा- मैवं कृतास्त्वमिति, यदि पुनरसी गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्योत्तदप्रासुकमिति ज्ञात्वा न प्रतिगृह्णीयादिति ।
किञ्च अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा- 'नो' नैव साधुभिक्षादानार्थ पुरः- अग्रतः कृतं प्रक्षालनादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्रोहस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमप्रासुकमनेषणीयमिति मत्वा नो गृह्णीयादिति । अथ पुनरेवं विजानीयात्, तद्यथा-नैव 'उदकार्द्रण' गलबिन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं न प्रतिगृह्णीयात, 'एव' मिति प्राक्तनंन्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि एवं मृत्तिकाद्यप्यायोज्यमिति ।
तत्रोषः - क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः वर्णिका - पीतमृत्तिका, सेटिका खटिका, सौराष्ट्रका - तुबरिका, पिष्टम्अच्छटिततन्दुलचूर्णः, कुक्कुसाः प्रतीताः, 'उक्कडं' ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णिमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात् इत्येवमादिना तु असंसृष्टेन तु गृह्णीयादिति । अथ पुनरेवं जानीयान्नोऽसंसृष्टः किं तर्हि ? संस्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, तद्यथा- "असंसट्टे हत्ये असंसट्टे मत्ते निरवसेसे दव्वे" इत्येकैकपदव्यभिचारान्नैयाः, स्थापना चेयम् - अथ पुनरसौ भिक्षुरेवं जानीयात्, तद्यथा - उदकादिनाऽसंसृष्टधे हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारदिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति । किञ्च
यू. (३६८) से भिक्खू वा २ से जं पुण जाणिज्जा पिहुयं वा बहुरयं वा जाव चा उलपलंबं वा असंजए भिक्खु पडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिमुं वा कुट्टिति वा कुट्टिस्संति वा उष्फणिंसु वा ३ तहष्पगारं पिहुयं वा अप्फासुयं नो पडिगाहिज्जा ।।
वृ. स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात, तद्यथा- 'पृथुकं' शाल्यादिलाजानू 'बहुरयं ति पहुकं 'चाउलपलंबं ति अर्द्धपक्वाल्यादिकणादिकमित्येवमादिकम् 'असंयतः ' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिल्यां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः ' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा । एकवचनाधिकारेऽपि छान्दसत्वात्तिङव्यत्ययेन बहुवचनं द्रष्टव्यं पूर्वत्र वा जातावेकवचनं, तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फर्णिसु' त्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथा प्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति । किञ्च
•
भू. (३६९) से भिक्खूवा २ जाव समाणे से जं० बिलं वा लोणं उष्मियं वा लोणं अस्संजए जाव संताणाए मिंदिसु ३ रुचिंसुवा ३ बिलं वा लोणं उष्मियं वा लोणं अफासुयं नो पडिगाहिजा वृ. भिक्षुर्यदि पुनरेवं विजानीयात्, तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम्, अस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org