SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं १, उद्देशकः ६ चोपलक्षणार्थत्वात्सैन्धवसीवर्चलादिकमपि द्रष्टव्यं तथोद्भिज्जमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात्क्षारोदकसेकाद्यद्भवति रूमकादिकं तदपि ग्राह्यं । ३५१ तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः कणिकाकारं कुर्यु, तथा साध्वर्थमेव भिन्दन्ति मेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं 'रुचिसुव' त्ति पिष्टवन्तः पिंषन्ति पेक्ष्यन्तिवा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो ( प्रति) गृह्णीयात् ॥ अपि च मू. (३७०) से भिक्खू वा से जं० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली वूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वा आमजमाणे वा पमजमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगनिजीवे हिंसिज्जा, अह भिक्खूणं पुव्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो पडि ०ए० सामग्गियं ॥ वृ. सभिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृह्णीयात् । अत्रैवदोषमाह- केवली ब्रूयात् 'आदानं' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निसिञ्चन् दत्तोद्वरितं प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना शोधयन् । तथा प्रकर्षेण मार्जयन् - शोधयन्, तथाऽवतारयन्, तथा 'अपवर्त्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यादिति । 'अथ' अनन्तरं 'भिक्षूणां साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनाद्यग्निक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् एतत्खलु, भिक्षोः 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ चूडा-१ अध्ययन- १ उद्देशकः ६ समाप्तः -: चूडा-१ अध्ययन नं-१ उद्देशक- ७ : वृ. षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के संयमविराधनाऽमिहिता, इह तु संयमात्मदातृविराधना तथा च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति मू. (३७१) से भिक्खू वा २ से जं० असणं वा ४ खंधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो, केवली बूया आयाणमेयं, अस्संजए भिक्खूपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहड्ड उस्सविय दुरूहिञ्जा, से तत्थ दुरूहमाणे पयलिज वा पवज्जि वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसं वा अन्नयरं वा कार्यसि इंदियजालं लूसिज या पाणाणि वा ४ । अभिहणिज्जवा वित्तासिज्ज वा लेसिज वा संघसिज्ज वा संघट्टिज वा परियाविजबा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, सेभिक्खू वा २ जाव समाणे से जं० असणं वा ४ कुट्टियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुजिय अवउज्जिय ओहरिय आहड्ड दलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy