________________
आचाराङ्ग सूत्रम् 9/19/१/९
२॥
॥9॥ 'पुढवीजलजलणमारुय एक्के के सत्त सत्त लक्खाओ।
वण पत्तेय अणंते दस चोद्दस जोणिलक्खाओ।। ॥२॥ विगलिंदिएसु दो दो चउरो चउरोय नारयसुरेसुं।
तिरिएसु हुंति चउरो चोद्दस लक्खा यमणुएसु॥ -तथा शुभाशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते॥१॥ 'सीयादी जोणीओ चउरासीती य सयसहस्साई।
असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण ॥ अस्संखाउमणुस्सा राईसर संखमादिआऊणं ।
तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं ।। ॥३॥ तत्थवि य जाइसंपन्नतादि सेसाउ हुँति असुभाओ।
देवेसु किव्विसादी सेसाओ हुंति उसुभाओ।। ॥४॥ पंचिंदियतिरिएसुंहयगयरयणे हवंति उ सुभाओ।
सेसाओ असुभाओ सुभवण्णेगिंदियादीया। देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभावं ।
अनगारभाविताविय सेसा उ अणंतसो पत्ता ।। एताश्चानेकरूपायोनीदिंगादिषुपर्यटनपरिज्ञातकर्माऽसुमान् ‘संधेइ'त्ति सन्धयति-सन्धि करोत्यात्मना, सहाविच्छेदेन संघट्टयतीत्यर्थः, 'संधावइति वा पाठान्तरं, 'सन्धावति पौनःपुन्येन तासुगच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तद्दर्शयति-विरूप-बीभत्सममनोज्ञं रूप-स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, 'तास्थ्यात्तद्वयपदेश' इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् 'प्रतिसंवेदयति' अनुभवति, प्रतिग्रहणाप्रत्येकं शारीरान्मानसांश्च दुःखोपनिपातानुभवतीत्युक्तं भवति, स्पर्शग्रहणंचेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्ग्रहार्थं, स्पर्शनेन्द्रियस्यसर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं-सर्वान्विरूपरूपानसगन्धरूपशब्दान्प्रतिसंवेदयतीति, विरूपरूपत्वंच स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीतिवेदितव्यं, विचित्रकर्मोदयाचापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपास्तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति, आह च - ॥१॥ "तैः कर्मभिः स जीवो विवशः संसारचक्रमुपयाति ।
द्रव्यक्षेत्राद्धाभावभिन्नमावर्त्तते बहुशः ।। ॥२॥ नरकेषु देवयोनिषु तिर्यग्योनिषुच मनुजयोनिषु च ।
पर्यटति घटीयन्त्रवदात्मा बिभ्रच्छरीराणि ।। ॥३॥ सततानुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् ।
तिर्यक्षु भयक्षुतृड्वधा दिदुःखं सुखं चाल्पम् ।। सुखदुःखे मनुजानां मनःशरीराश्रये बहुविकल्पे। सखमेव हि देवानां दःखं स्वल्पंच मनसि भवम ।।
For Private & Personal Use Only
॥४॥
Jain Education International
www.jainelibrary.org