SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः १ - २९ विशिष्टक्रियापरिणति रूप आत्माऽभिहितः, ततश्चायं भावार्थो भवति - स एवाहं येन मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकाय्यानुष्ठानपरायणेनाSऽनुकूल्यमनुष्ठितम् उक्तं च--- 11911 "विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाइँ ताइं हियए खुडुक्कंति ॥" 'तथा अचीकरमह'मित्यनेन परोऽकार्यादौ प्रवर्त्तमानो मया प्रवृत्तिं कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानं, तथा 'करोमी' त्यादिना वचनत्रिकेण वर्त्तमानकालोल्लेखः, तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यनागतकालोल्लेखः, अनेन च कालत्रयसंस्पर्शेन देहेन्द्रियातिरिक्तस्यात्मनो भूतवर्त्तमानभविष्यत्कालपरिणतिरूपस्यास्तित्वावगतिरावेदिता भवति, साच नैकान्तक्षणिकनित्यवादिनां सम्भवतीत्यतोऽनेन ते निरस्ताः, क्रियापरिणामेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसेयम् । यदिवाअनेन क्रियाप्रबन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमायेवेदितमिति ।। अथ किमेतावत्य एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याहमू. (७) एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति । वृ. एतावन्तः सर्वेऽपि ‘लोके’ प्राणिसङ्घाते 'कर्म्मसमारम्भाः' क्रियाविशेषा ये प्रागुक्ताः अतीतानागतवर्त्तमानभेदेन कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव सर्वैः कर्म्मसमारम्भैर्ज्ञातिं भवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्म्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान् प्रदर्शितुमाहयदिवा यस्तावदात्मकर्मादिवादी स दिगादि भ्रमणान्मोक्ष्य इतरस्य तु विपाकान् दर्शयितुमाह-मू. (८) अपरिण्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अनुदिसाओ अनुसंचरइ, सव्वाओ दिसाओ सव्वाओ अनुदिसाओ साहेति । वृ. योऽयं पुरि शयनात्पूर्णः सुखदुःखानां वा पुरुषो जन्तुर्मनुष्यो वा प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः 'अपरिज्ञातकर्मा' अपरिज्ञातं कमनेनेत्यपरिज्ञातकम्, खलुरवधारणे अपरिज्ञातकर्मेंद दिगादौ भ्राम्यति नेतर इति, उपलक्षण चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकर्मा' स सर्वा दिशः सर्वाश्चानुदिशः 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ॥ स यदाप्नोति तद्दर्शयतिमू. (९) अनेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ । बृ. अनेकं संकटविकटादिकं रूपं यासां तास्तथा, यौति मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैर सुमान् यासु तायोनयः प्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वं चासां संवृतविवृतोभयशीतो ष्णोभयरूपतया यदिवा चतुरशीतिलक्षभैदेन, ते चामी चतुरशीतिर्लक्षा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy