________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशक:
३१
कर्मानुभावदुःखित एवं मोहान्धकारगहनवति।
अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे । ॥६॥ दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः ।
प्राणिवधादीन् दोषानधितिष्ठति मोहसंछन्नः।। ॥७॥ बघ्नाति ततो बहुविधमन्यत्पुनरपि नवं सुबहु कर्म।
तेनाथ पच्यते पुनरग्नेरग्नि प्रविश्येव ।। ॥८॥ एवं कर्माणि पुनः पुनः स बघ्नस्तथैव मुञ्चश्च ।
सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ।। ॥९॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् ।
संसारमहत्त्वाधार्मिकत्वदुष्कर्मबाहुल्यैः ।। ॥१०॥ आर्यो देशः कुलरूपसम्पदायुश्च दीर्घमारोग्यम् ।
यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितक्ष्ण्यम्॥ ॥११॥ एतानि दुर्लभानि प्राप्तवतोऽपि दृढमोहनीयस्य ।
कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः॥" यदि वा योऽयं पुरुषः सर्वा दिशोऽनुदिशश्चनुसञ्चरति तथाऽनेकरूपा योनीः सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति, सः ‘अविज्ञातकर्मा' अविज्ञातम्-अविदितं कम्-क्रिया व्यापारो मनोवाक्कायलक्षणः, अकार्षमहं करोमि करिष्या- मीत्येवंरूपः जीवोपमर्दात्मकत्वेन बन्धहेतुः सावधो येन सोऽयमविज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्रतत्र कर्मणिजीवोपमर्दादिके प्रवर्त्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदयाचानेकरूप- योन्यनुसन्धान विरूपरूपस्पर्शानुभवश्च भवतीति । यद्येवं ततः किमित्यत आह -
मू. (१०) तत्थ खलु भगवता परिण्णा पवेइआ।
वृ. 'तत्र' कर्मणि व्यापारे अकार्षमहं करोमि करिष्यामीत्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे 'भगवता' वीरवर्द्धमानस्वामिनापरिज्ञानं परिज्ञासाप्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता, एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति, सा च द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञाच, तत्रज्ञपरिज्ञया सावधव्यापारेण बन्धो भवतीत्येवंभगवतापरिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावधयोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा चेति ।।
अमुमेवार्थं नियुक्तिकृदाह - नि. [६७] तत्थ अकारि करिस्संति वंधचिंता कया पुणो होइ ।
सहसम्मइया जाणइ कोइ पुण हेतुजुत्तीए। वृ. 'तत्र' कर्मणि क्रियाविशेषे, किम्भूत इत्याह - 'अकारिकरिस्संति' अकारीतिकृतवान् करिस्सन्ति-करिष्यामीति, अनेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारितानुमत्योचोपसङ्गहान्नवापिभेदाआत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्टव्याः, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण ‘बन्धचिन्ता कृता भवति' बन्धस्योपादानमुपातं भवति, कर्मयोगनिमित्तं बध्यते' इति वचनात्, एतच्च कश्चिञ्जानातिआत्मना सहयासन्मतिःस्वमतिर्वा अवधिमनःपर्याय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org