________________
श्रुतस्कन्धः - २, उपोद्घातः
३२५
श्रुतस्कन्धः - २
नि. [ २८५ ]
जयत्यनादिपर्यन्तमनेकगुणरत्नमृत् । न्यत्कृताशेषतीर्थेशं तीर्थं तीर्थाधिपैर्नुतम् ॥ नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारत्नार्चितांहये ॥
नि. [ २८६ ]
नि. [ २८७] आचारमेरोर्गदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत, निशेषमशेषितक्रियः ॥ बृ. उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमसिसम्बन्ध - उक्तं प्रागाचारपरिमाणं प्रतिपादयता, तद्यथा । “नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ ।
119 11
हवइ ये सपंचचूलो बहुबहु अयरो पयग्गेणं "
तत्राद्ये स्कन्धे नवब्रह्मचर्याध्ययनानि प्रतिपादितानि तेष च न समस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्क्षेपतोऽतोऽनभिहितार्थाभिधानाय सङ्क्षेपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतम्नश्चूडा उक्तानुक्तार्थसङग्राहिकाः प्रतिपाद्यन्ते, तदात्मकश्च द्वितीयोऽग्रश्रुतस्कन्धः इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनाहत्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाह
नि. [ २८८ ] दव्यगाहण आएस काल कमगणणसंचए भावे ।
अग्गं भावे उ पहाणबहुय उवगारओ तिविहं ।।
वृ. तत्र द्रव्याग्रं द्विधा - आगमतो नोआगमत इत्यादि भणित्वा व्यतिरिक्तं त्रिधा सचिताचित्तमिश्रद्रव्यस्य वृक्षकुन्तादेर्यदग्रमिति, अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं, तद्यथा - मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रचतुर्भागो भूभाववगाढ इति मन्दराणां तु योजनसहमिति, आदेशाग्रम् आदिश्यत इत्यादेशः -व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिममतानामादेशो दीयते तदादेशाग्रं, तद्यथा - त्रिभि पुरुषैः कर्म रयति तान् वा भोजयतीति, कालाग्रम् - अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीत - कालोऽनादिरनागतोऽनन्तः सर्वाद्धा वा क्रमाग्रं तुक्रमेण परिपाट्या ग्रं क्रमाग्रं, एतद् द्रव्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् द्वयणुंक द्वयणुकाद् त्रयणुकमित्येवमादि ।
क्षेत्राग्रम् - एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि । कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थित्कमित्यादि, भावाग्रमेकगुणकृष्णाद् द्विगुणकृष्णं द्विगुणकृष्णा त्रिगुणकृष्णमित्यादि, गणनाग्रंतु सङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थ, तद्यथा-एको दश शतं सहस्रमित्यादि, सञ्चयाग्रं तु सञ्चतस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सञ्चितस्योपरि शङ्खः । भावाग्रं तु त्रिविधं - प्रधानाग्रं १ प्रभूताग्रम् २ उपकाराग्रं ३ च तत्र प्रधानाग्रं सचितादि त्रिधा, सचित्तमपि द्विपदादिभेदात्रिधैव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org