________________
३२४
आचाराङ्गसूत्रम् १/९/-1इतश्चैतदेवमङ्गीकर्तव्यं, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्त, उक्तंच॥॥ 'सुबहुं पि सुअमधीतं किं काहि चरणविप्पहूण(मुक्क)स्स? ।
अंघस्सजह पलित्ता दीवसतसहस्सकोडीवि॥ दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपिजीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञानेसमुल्लसितेन व्युपरतक्रियानिवर्तिध्यानक्रियामन्तरेण भवधारणीयकर्मोच्छेदः, तदच्छेदाच न मोक्षावासिरित्यतो न ज्ञानं प्रधान, चरणक्रियायं पुनरैहिकामुष्मिकफलावाप्तिरित्यतः सैव प्रधानभावमनुभवतीति, तदेवं ज्ञानमृते सम्यक्रियाया अभावः, तदभावाश्च तदर्थप्रवृत्तस्य ज्ञानस्य वैफल्यम्।
एवमादीनांयुक्तीनामुभयत्राप्युपलब्धेव्याकुलितमतिः शिष्यपृच्छति-किमिदानीं तत्त्वमस्तु?,आचार्यआह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथाज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानो पङ्वन्धाविवेति, तथा चोक्तम् - "संजोयसिद्धीऍफलंवदन्ती'त्यादि, स्वतन्त्रप्रवृत्तीतुनविवक्षितकार्यसाधयतइत्येतच प्रसिद्धमेव, यथा हयं नाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा॥७॥ 'सव्वेसिपि नयाणंबहुविहवत्तवयं निसामेत्ता।
तंसव्वणयविसुद्धं जंचरणगुणढिओ साहू॥त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंग्रयोगाद्यनेकव्यसनोपनिपातमहावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यत्यरत्यादितरङ्गंविधसावेलाचितंव्याधिशतनक्रचक्रालयमहागम्भीरंभयजननंपश्यतां त्रासोत्पादकंमहासंसारार्णवंसाधूनामुत्तितीर्षतांतदुत्ततरणसमर्थमव्याहतंयानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधंशाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तुद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निवृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति॥
द्वासप्तत्यकेषुहि शतेषु सप्तसु गतेषु गुप्तानाम् ।
संवत्सरेषुमासिचभाद्रपदे शुक्लपञ्चम्याम् ॥२॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा।
सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायेंः ॥३॥ कुत्व: ।ऽचारस्य मया टीका गत्किमपि संचितं पुण्यम् ।
नाप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ॥४॥ वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् ।
तच्छोधनीयमत्रच व्यामोहः कस्य नो भवति?
- प्रथम श्रुतस्कन्धः समाप्तः मुनिदीपरलसागरेण संशोधिता-सम्पादिता शीलाशाचार्य विरचिता नवमअध्ययनटीका एवं प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता॥
19॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org