________________
श्रुतस्कन्धः - १, अध्ययनं : ९
सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति । अध्ययनं - ९ समाप्तम्
इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परस्तः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्प्रपञ्चयते, तत्रज्ञाननयाभिप्रायो ऽयम्-यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेर्ज्ञानाधीनत्वात्, तथा हि सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्
॥१॥
“विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥”
३२३
इत्यादि, संविन्निष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं तथाहि – ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तिः परिहरति, तथा चागमः - 'पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावजीवाजीवाद्यखिलव स्तुपरिच्छेदरूपं घनघातिकर्म्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति ।
11911
अधुना क्रियानयाभिप्रायेोऽभिधीयते, तद्यथा- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरप्रधानमिति न्यायात्, संविदात विषयव्यवस्थानस्याप्यर्थक्रियार्थ त्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि क्रियायां समुपलभ्येते, यतः सम्यक् चिकित्साविधिज्ञोऽपि यथार्थौषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तम् ॥१॥ “ शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्य तामौषधमातुरं हि किं ज्ञानमात्रेण करोत्यरोगम् ? ।।"
·
(तथा) "क्रियेव फलदा पुसां, न ज्ञानं फलदं मतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥"
इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत् न हि ध्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्भिकफलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं यत उक्तं चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य । सव्वेसुऽवि तेण कयं तवसञ्जममुञ्जमन्तेणं ।'
11911
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org