________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक: ४
मू. (३२६)
गामं पविसे नगरं वा घासमेसे कडं परठ्ठाए । सुविसुद्धमेसियाभगवं आयतजोगयाए सेवित्था ||
वृ. ग्रामं नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयते, परार्थाय कृतमित्युद्गमदोषरहितं, तथा सुविशुद्धमुत्पादनादोषरहितं तथैषणादोषपरिहारेणैषित्वा - अन्वेष्य भगवानायतः संयतो योगो - मनोवाक्कायलक्षणः आयतश्चासी योगश्चायतयोगोज्ञानचतुष्टयेन सम्यग्योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं शुद्धं ग्रासैषणादोषपरिहारेण सेवितवानिति । मू. (३२७) अदु वायसा दिगिंछत्ता जे अन्ने रसेसिणो सत्ता । घासेसणाए चिट्ठन्ति सययं निवइए य पेहाए ।
वृ. किंच - अथं भिक्षां पर्यटतो भगवतः पथि वायसाः काका 'दिगिंछ' ति बुभुक्षा तयाऽऽर्त्ता बुभुक्षात्ता ये चान्ये रसैषिणः- पानार्थिनः कपोतपारापतादयः सत्त्वाः तथा ग्रासस्यैषणार्थम्अन्वेषणार्थं च ये तिष्ठन्ति तान् सततम् - अनवरतंनिपतितान् भूमी 'प्रेक्ष्य' दृष्ट्वा तेषां वृत्तिव्यवच्छेदं वर्जयन्मन्दमाहारार्थी पराक्रमते ।
मू. (३२८) अदुवा माहणं च समँ वा गामपिण्डोलगं च अतिहिं वा । सोवागमूसियारिं वा कुकुरं वावि विट्ठियं पुरओ ।।
वृ. किं च-अथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीवकपरिव्राट्तापसनिर्ग्रन्थानामन्यतमं 'ग्रामपिण्डोलक' इति भिक्षयोदरभरणार्थं ग्राममाश्रिस्-तुन्दपरिमृजो द्रमक इति, तथाऽतिथिं वा आगन्तुकम् तथा श्वपाकं- चाण्डालं मार्जारीं वा कुकुरं वापि श्वानं विविधं स्थितं 'पुरतः' अग्रतः पू. (३२९)
-
३२१
वित्तिच्छेयं वज्रन्तो तेसिमप्पत्तियं परिहरन्तो । मन्दं परक्कमे भगवं अहिंसमाणो घासमेसित्था ॥
वृ. समुपलभ्य तेषां वृत्तिच्छेदं वर्जयन् मनसो दुष्प्रणिधानं च वर्जयन् मन्दं मनाकं तेषां त्रासमकुर्वन् भगवान् पराक्रमते, तथा परांश्च कुन्धुकादीन् जन्तून् अहिंसन् ग्रासमन्वेषितवानिति ॥ किंच
पू. (३३०) अवि सूइयं वा सुक्क. वा सीयं पिंडं पुराणकुम्मासं । अदु बुक्क संपुलागं वा लद्धे पिंडे अलद्धे दविए ।
वृ. 'सूइयं त्ति दध्यादिना भक्तमार्द्रीकृतमपि तथाभूतं शुष्कं वा बल्लचनकादि शीतपिण्डं वा पर्युषितभक्तम् तथा 'पुराणकुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुकसं 'ति चिरन्तनधान्यौदनं, यदिवा पुरातनसक्तुपिण्डं, यदिवा बहुदिवससम्भृतगोरसं गोधमण्डकं चेति, तथा 'पुलाकं' यवनिषअपावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि लब्धे पर्याप्ते शोभने वा नोत्कर्षं याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते ।
|1|21|
Jain Education International
मू. (३३१) अवि आइ से महात्ये महावीरे आसणत्ये अकुक्कूए झाणं ।
उड्डुं अहे तिरियं च पेहमाणे समाहिमपडित्रे ।।
वृ. किं च - तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो,
For Private & Personal Use Only
www.jainelibrary.org