________________
३२०
आचाराङ्गसूत्रम् 9/-/९/४/३२० वृ किंच - 'विरतो' निवृत्तः केभ्यो?- 'ग्रामधर्मेभ्यो' यथास्वमिन्द्रियाणां शब्दादिभ्यो विषयेभ्यो 'रीयते' संयमानुछाने पराक्रमते, 'माहणे त्ति, किंभूतो भगवान् ? असावबहुवादी, सकृद्व्याकरणभावाद्बहुशब्दोपादानम्, अन्यथा हि अवादीत्येवब्रूयात, तथैकदा शिशिरसमये स भगवांच्छायायां धर्मशुक्लध्यानध्याय्यासीच्चेति। मू. (३२१) आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभित्तावे।
अदुजाव इत्य लूहेणं ओयणमंथुकुम्मासेणं। वृ. किं च • सुब्ब्यत्ययेन सप्तम्यर्थे षष्ठी, ग्रीष्मेष्वातापयति, कथमिति दर्शयतितिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखमिति, अथ आनन्तर्येधमाधारंदेहंयापयति स्मरूक्षेणस्नेहरहितेनकेन?- ओदनभन्थुकुल्माषेण' ओदनंच-कोद्रदवीदनादिमन्थुच-बदरचूर्णादिकं कुल्माषाश्च-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषितमाषा वा सिद्धमाषा वा
ओदनमन्थुकुल्माषमिति समाहारद्वन्द्वः तेनात्मानं यापयतीति सम्बन्ध इति । एतदेव कालावधिविशेषणतो दर्शयितुमाहमू. (३२२) एयाणि तित्रि पडिसेवे अट्ठ मासे अ जावयं भगवं।
अपि इत्य एगया भगवं अद्धमासं अदुवा मासंपि ।। वृ. 'एतानि' ओदनादीन्यनन्तरोक्तानि प्रतिसेवते, तानि च समाहारद्वन्द्वेन तिरोहितावयवसमुदायप्रधानेन निर्देशात्कस्यचिन्मन्दबुद्धेः स्यादारेका यथा-त्रीण्यपि समुदितानि प्रतिसेवतइति, अतस्तर्द्वयुदासाय त्रीणीत्यनया सङ्ख्यया निर्देश इति, त्रीणिसमस्तानि व्यस्तानि वा यथालाभं प्रतिसेवत इति, कियन्तं कालमिति दर्शयति-अष्टौ मासान् ऋतबद्धसंज्ञकानात्मानं अयापयद्-वर्तितवान् भगवानिति, तथा पानमप्यर्द्धमासमथवा मासं भगवान् पीतवान् । मू. (३२३) अवि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्या। .
राओवरायं अपडिने अनगिलायमेगया मुझे।। वृ. अपि च मासद्वयमपि साधिकम् अथवा षडपि मासान् साधिकान् भगवान्पानकमपीत्वाऽपि रात्रोपरात्र मित्यहर्निशं विहृतवान्, किंभूतः? -- 'अप्रतिज्ञः पानाभ्युपगमरहित इत्यर्थः, तथा 'अत्रगिलायन्ति पर्युषितं तदेकदा मुक्तवानिति। मू. (३२४) छद्रेण एगया भुझे अदुवा अट्टमेण दसमेणं।।
दुवालसमेण एगया भुओं पेहमाणे समाहिं अपडिन्ने । वृ.किंच-षष्ठेनैकदाभुङ्को, षष्ठंहिनामैकस्मिन्नहन्येकमक्तं विधाय पुनर्दिनद्वयभुक्त्वा चतुर्थेऽहयेकभक्तमेव विधत्ते, ततश्चाधन्तयोरेकमक्तदिनयोक्तद्वयं मध्यदिवसयोश्च भक्तचतुष्टयमित्येवंषण्णां भक्तानांपरित्यागात्षष्ठंभवति, एवं दिनादिवृद्धयाऽष्टमाद्यायोज्यमिति, अथाष्टमेनदशमेनाथवाद्वादशमेनैकदा कदाचिद्भुक्तवान्, 'समाधि शरीरसमाधानं प्रेक्षमाणः' पर्यालोचयन् न पुनर्भगवतः कथंचिद्दौर्मनस्यं समुत्पद्यते, तथाऽप्रतिज्ञः-अनिदान इति । मू. (३२) नचा णं से महावीरे नोऽविय पावगं सयमकासी।
अनेहिं वान कारित्या कीरंतंपि नाणुजाणिस्था॥ कृ.किंच-ज्ञात्वा हेयोपादेयंसमहावीरः कमप्ररणसहिष्णुपिचपापकंकर्मस्वयमकार्षीत् नचाप्यन्यैरचीकरत्नच क्रियमाणमपरैरनुज्ञातवानिति॥ किंच
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org