________________
श्रुतस्कन्धः - १, अध्ययनं - ९, उद्देशक : ३
दुःखचिकित्साप्रतिज्ञा विद्यत इत्यप्रतिज्ञः ॥ कथं दुःखसहो भगवानित्येतद्द ष्टन्तद्वारेण दर्शयितुमाह
मू. (३१६)
सूरो सङ्गामसीसे वा संवुड़े तत्थ से महावीरे । पडिसेवमाणे फरुसाई अचले भगवं रीयित्था ।
वृ. यथा हि संग्रामशिरसि 'शूरः ' अक्षोभ्यः परैः कुन्तादिभिर्भिद्यमानोऽपि वर्म्मणा संवृताङ्गो न भङ्गमुपयातीति, एवं स भगवान्महावीरः 'तत्र' लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रतिसेवमानश्च 'परुषान्' दुःखविशेषान् मेरुरिवाचलो - निष्प्रकम्पो धृत्या संवृताङ्गो भगवान् 'रीयते स्म' ज्ञानदर्शनचारित्रात्मके मोक्षाध्वनि पराक्रमते स्मेति ।
मू. (३१७) एस विही अणुक्कन्तो० जाव कासवेण महेसिणा ॥ तिबेमि । वृ. उद्देशकार्थमुपसंजिहीर्षुराह- 'एस विही' त्यादि पूर्ववद् । अध्ययनं - ९ - उद्देशकः-३ - समाप्तः
३१९
-: अध्ययन-९ उद्देशकः-४:
वृ. उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके भगवतः परीषहोपसर्गादिसहनं प्रतिपादितं तदिहापि रोगातङ्कपीडाचिकित्साव्युदासेन सम्यगधिसहते ततुद्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (३१८)
ओमोयरियं चाएइ अपुट्ठेऽवि भगवं रोगेहिं । पुढे वा अपुढे वा नो से साइजई तेइच्छं ।
वृ. अपि शीतोष्णदंशमशकाक्रोशताडाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्यं न्यूनोदरतां शक्नोति कर्तुं लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्वेदनीयादिभिर्भावरोगैर्न्यनोदरतां करोति ।
अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव दर्शयति- स च भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासश्वासादिभिर्नासौ चिकित्सामभिलक्षति, न द्रव्यौषधाद्युपयोगतः पीडोपशमं प्रार्थयतीति ।
पू. (३१९)
संसोहणं च वमणं च गायब्भंगणं च सिणाणं च ।
Jain Education International
संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए ।
वृ. एतदेव दर्शयितुमाह-गात्रस्य सम्यक् शोधनं संशोधनं-विरेचनं निःसोत्रादिभिः तथा वमनं मदनफळलदिभिः, चशब्द उत्तरपदसमुच्चयार्थो, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः स्नानं चोद्वर्त्तनादिभिः संबाधनं च हस्तपादादिभिस्तस्य भगवतो न कल्पते, तथा सर्वमेव शरीरमशुच्यात्मकमित्येवं 'परिज्ञाय' ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पत इति । पू. (३२०) विरए गामधम्मेहिं रीयइ माहणे अबहुवाई । सिसिरंमि एगया भगवं छायाए झाइ आसीय ।
For Private & Personal Use Only
www.jainelibrary.org