________________
३१८
आचाराङ्ग सूत्रम् १/-/९/३/३०९
वृ. किं च- एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन्, तथा 'संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन्, दुर्निवारत्वात्तेषां, 'तंत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि ग्रामादीनीति ।
भू. (३१०)
निहाय दण्डं पाणेहिं तं कायं वोसजमणगारे ।
अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥
सृ. तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु योदण्डनाद्दण्डोमनोवाक्कायादिकस्तं भगवान् 'निधाय' त्यक्त्वा, तथा तच्छरीरमप्यगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचवनरूक्षालापानपि भगवांस्तांस्तान् सम्यक्करणतयानिर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयतिअधिकसहते । यू. (३११)
नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥
वृ. कथमसिहत इति दृष्टान्तद्वारेण दर्शयितुमाह-- 'नागो' हस्ती यथाऽसौ संग्राममूर्द्धन परानीकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाढेषु परीषहानीकं विजित्य पारगोऽभूत्, किंच- 'तत्र' लाढेषु विरलत्वाद्राग्माणां क्वचिदेकदा वासायालब्धपूर्वी ग्रामोऽपि भगवता ॥ किंच
पू. (३१२)
उवसंक्रमन्तमपडिनं गामंतियम्मि अप्पत्तं ।
पडिनिक्खमित्तु लूसिंसु एयाओ परं पलेहित्ति ।।
बृ. 'उपसङ्क्रामन्तं' भिक्षायै वासाय वा गच्छन्तं, किंभूतम् ? 'अप्रतिज्ञं' नियतनिवासादिप्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद्ग्रामात्प्रतिनिर्गत्य ते जना भगवन्तमलूषिषुः, एतच्चोचुः इतोऽपि स्थानात्परं दूरतरं स्थानं 'पर्येहि' गच्छेति ।
मू. (३१३) हयपुव्वो तत्थ दण्डेण अदुवा मुट्टिणा अदु कुन्तफलेण ।
अदु लुणा कवालेण हन्ता हन्ता बहवे कन्दिसु ॥
वृ. किंच - तत्रग्रामादेर्बहिर्व्यवस्थितः पूर्वं हतो हतपूर्वः, केन ? – 'दण्डेनाथवामुष्टिनाऽथवा कुन्तादिफलेनाथवा लेष्टुना कपालेन घटखरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः पश्यत यूयं किंभूतोऽयमित्येवं कलकलं चक्रुः ।
पू. (३१४)
मसाणि छिन्नपुव्वाणि उटुंभिया एगया कार्यं । परीसहाई लुंचिंसु अदुवा पंसुणा उवकरिंसु ॥
--
वृ. किं च मांसानि च तत्र भगवतच्छिन्नपूर्वाणि एकदा कायमवष्टभ्य - आक्रम्य तथा नानाप्रकाराः प्रतिकूलपरीषहाश्च भगवन्तमलुञ्चिषुः, अथवा पांसुनाऽवकीर्णवन्त इति । पू. (३१५) उच्चालइय निहणिसु अदुवा आसणाउ खलइंसु । वोसट्टकायपणयाऽऽ सी दुक्खसहे भगवं अपडिन्ने ।
-
वृ. किं च भगवन्तमूर्ध्वमुत्क्षिप्य भूमौ निहतवन्तः क्षिप्तवन्तः, अथवा 'आसनात् गोदोहिकोत्कुटुकासनवीरासनादिकात् 'स्खलितवन्तो' निपातितवन्तः, भगवांस्तु पुनर्व्यसृष्टकायः परीषहसहनं प्रति प्रणत आसीत्, परीषहोपसर्गकृतं दुःखं सहत इति दुःखसहोभगवान्, नास्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-