________________
श्रुतस्कन्धः-१, अध्ययनं- ९, उद्देशक:३
३१७ मू. (३०४) तणफासै सीयफासे य तेउफासे यदंसमसगे य।
अहियासए सया समिए फासाइं विरूवरूवाई। वृ. तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शाउष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथ दंशमशकादयश्च, एतान्तृणस्पर्शादीन् 'विरूपरूपान्नानाभूतान्भगवानध्यासयति, सम्यगितःसम्यग्भावं गतः समितिभिः समितो वेति। मू. (३०५) अह दुचरलाढमचारी वजभूमिं च सुब्मभूमिं च ।
पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ वृ.किंच-'अथ आनन्तर्येदुःखेनचर्यतऽस्मिनितिदुश्चरः सचासौलाढश्च जनपदविशेषो दुश्चरलाढस्तंचीर्णवान-विहृतवान्, सच द्विरूपो-वज्रभूमिःशुभ्रभूमिश्च, तंद्विरूपमपि विहृतवान्, तत्रचप्रान्तां शय्यां वसतिशून्यगृहादिकामनेकोपद्रवोपद्रुतासेवितवान्, तथाप्रान्तानिचासनानिपांशूत्करशर्करालोष्टाद्युपचितानि च काष्ठानि च दुर्घटितान्यासेवितवानिति । मू. (३०६) लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु।
_ अह लूहदेसिए भत्ते कुक्कुरा तत्य हिंसिंसु निवइंसु॥
वृ. किं च लाढा नाम जनपदविशेषास्तेषु च द्विरूपेष्वपिलाढेषु तस्य भगवतो बहव उपसर्गाःप्रायशःप्रतिकूलाआक्रोशश्वभक्षणायआसन्, तानेव दर्शयति-जनपदे भवाजानपदाअनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डग्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, सचैवंद्रष्टव्यः, भक्तमपितत्र 'रूक्षदेश्य रूक्षकल्पमन्तप्रान्तमितियावत, तेचानार्यतया प्रकृतिक्रोधनाःकसिाधभावत्वाच्च तृणप्रावरणाःसन्तोभगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्तेच जिहिंसुः, उपरिच निपेतुरिति। मू. (३०७) अपेजणे निवारेइ लूसणए सुणए दसमाणे।
छुच्छुकारिति आहंसि समणं कुक्कुरा दसंतुत्ति।। वृ.किंच-'अल्पः स्तोकः सजनो यदि परंसहाणामेको यदिवा नास्त्येवासाविति यस्तान् शुनोलूषकान्दशतो निवारयति निषेधयति, अपितुदण्डप्रहारादिभिर्भगवन्तंहत्वातप्रेरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणंकुर्कुराः श्वानोदशन्तु-भक्षयन्तु?, तत्रचैवंविधेजनपदे भगवान् षण्मासावधिकालं स्थितवानिति ॥ किंच- । मू. (३०८) एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी।
लडिंगहाय नालियंसमणा तत्थ य विहरिसु।। वृ. इक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् ‘भूयः पौन-पुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुलपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिंदेहप्रमाणां चतुरडुलाधिकप्रमाणां वा नालिकांगृहीत्वा श्वादिनिषेधनाय विजहुरिति । “मू. (३०१) एवंपितत्थ विहरन्ता पुटपुव्वा अहेसि सुणिएहिं ।
___संलुश्चमाणा सुणएहिं दुचराणि तत्थ लादेहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org