________________
३१६
आचारामसूत्रम् १६९/२/३००
मू. (३००) जंसिप्पेगे पवेयन्ति सिसिरेमारुए पवायन्ते।
तंसिप्पेगे अनगारा हिमवाएनिवायमेसन्ति ।। वृ.यस्मिन् शिशिरादावप्येकेत्वक्त्राणामावतया प्रवेपन्ते दन्तवीणादिसमन्विताः कम्पन्ते, यदिवा प्रवेदन्यन्ति शीतजनितंदुःखस्पर्शमनुभवन्ति,आर्तध्यानवशगाभवन्तीत्यर्थः, तस्मिंश्च शिशिरे हिमकणिनिमारुतेचप्रवातिसत्येकेन सर्वे 'अनगाराः' तीर्थिकप्रव्रजिता हिमवाते सति शीतपीडितास्तदपनोदायपावकंप्रज्वालयन्ति-अङ्गारशकटिकामन्वेषयन्ति,प्रावारादिकंयाचन्ते, यदिवाऽनगारा इति-पार्श्वनाथतीर्थप्रव्रजिता गच्छवासिन एव शीतार्दिता निवातमेषन्तिघशालादिकावसतीर्वातायनादिरहिताः प्रार्थयन्ति। मू. (३०१) संघाडीओ पवेसिस्सामो एहा य समादहमाणा।
पिहिया व सक्खामो अइदुक्खे हिमगसंफासा । वृ. किंच-इहसङ्घाटीशब्देनशीतापनोदक्षमंकल्पद्वयंत्रयंवागृह्यते, ताः सङ्घाटीःशीतार्दिता वयं प्रवेक्ष्यामः, एवं शीतार्दिता अनगारा अपि विदधति, तीर्थकप्रजितास्त्वेघाः-समिधः काष्ठानीतियावद् एताश्चसमादहन्तःशीतस्पर्शसोदुंशक्ष्यामः, तथासंघाट्यावापिहिताः-स्थगिताः कम्बलाद्यावृताशरीराइति, किमर्थमेतत्कुर्वन्तीतिदर्शयति यतोऽतिदुःखमेतद्-अतिदुःसहमेतद्यदुत हिमसंस्पर्शाः-शीतस्पर्शवेदना दुःखेन सह्यन्त इतियावत। मू. (३०२) तंसि भगवं अपडिन्ने अहे विगडे अहीयासए।
दविए निक्खम्म एगया राओ ठाइए भगवं समियाए ।। पृ. तदेवमेवंभूते शिशिरे यथोक्तानुष्ठाननवत्सु च स्वयूध्येतरेष्वनगारेषु यद्भगवान् व्यघात्तद्दर्शयितुमाह - 'तस्मिन्' एवंभूते शिशिरे हिमवाते शीतस्पर्शे च सर्वंकषे 'भगवान्' ऐश्वर्यादिगुणोपेतस्तंशीतस्पर्शमध्यासयति-अधिसहते, किंभूतोऽसौ? – 'अप्रतिज्ञो न विद्यते निवातसतिप्रार्थनादिकाप्रतिज्ञायस्यसतथा, काध्यासयति? -'अधोविकटे अधः-कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि चेति, पुनरपि विशिनष्टि-रागद्वेषविरहाव्यभूतः कर्मग्रन्थिद्रावणाद्वा द्रवः-संयमः सविधतेयस्मासौद्रविकः,सचतथाऽध्यासयन्यद्यत्यन्तंशीतेन बाध्यतेततस्तस्मात् छन्नाष्क्रिम्य बहिरेकदा-रात्रौ मुहूर्तमात्रं स्थित्वा पुनः प्रविश्य स भगवान् शमितया सम्यग्वा समतया वा व्यवस्थितः सन्तं शीतस्पर्श रासभष्टान्तेन सोढुं शक्नोति-अधिसहत इति मू (३०३) एस विही अनुकंतो माहणेण मईमया।
बहुसो अपडिन्नेण भगवया एवं रीयन्ति ।-तिबेमि। वृ. एतदेवोद्देशकार्थमुपसंजिहीर्षुराह-एस विही इत्याद्यनन्तरोद्देशकवनेयमिति । इतिब्रवीमीतिशब्दी पूर्ववद् ।
अध्ययन-९ उद्देशकः-२ समाप्तः
अध्ययन-९ - उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके भगवतः शय्याः प्रतिपादिताः, तासु च व्यवस्थितेन ये यथोपसर्गाः परीषहाश्च सोढास्तप्रतिपादनार्थमिदमुपक्रम्यत इत्येन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org